________________
विक्रियाऽऽहारक-मारणान्तिक-तैजस-केवलीतिसमुद्घाताद्यवस्थासु नात्मा देहप्रमाणस्तिष्ठति । समुद्रघाताः (Over-Flows) समुद्घातस्तावत् 'स्वीय मूलशरीरमपरित्यज्य वात्मप्रदेशाना देहाबहिनि सृत्योत्तरदेह प्रति गमनम्" इत्युच्यते । तेषु सप्तविधेषूपरिलिखितेषु समुद्घातेषु नात्मा देहस्थित एव भवत्यपितु तत्तत्समुद्घातवशादात्मनो देहाद्वहि. निस्सरति । तथाहि१. तीव्रवेदनानुभवान्मूलशरीरमपरित्यज्यवात्मप्रदेशाना शरीराबहिर्गमनं वेदना (Anguesh) समुद्घात । २. तीव्रक्रोधादिकषायवशात् मूलशरीरमपरित्यज्य परघातार्थमात्मप्रदेशाना शरीराद्वहिर्गमन कषाय (Passion) समुद्घात. । ३. कामादिजन्यविक्रियार्थमात्मप्रदेशानां मूलशरीरमपरित्यज्य देहाबहिर्गमन विक्रिया (Fluid) समुद्घात. । ४ मरणान्तकाले च यत्र कुत्रचिद्बद्धमायु प्रदेश स्पृष्टु मूलशरीरमपरित्यज्यात्मप्रदेशाना शरीराद्बहिर्गमन मारणान्तिक (Death-Bed) समुद्घात । ५. तेजस (Electric) समुद्रात शुभाशुभभेदाभ्या द्विविध , तथाहि(क) स्वस्यानिष्टोत्पादक किञ्चित्कारणान्तरमवलोक्य समुपजातक्रोधस्य सयमधनस्य महामुनेः वामस्कन्धान्निर्गतः, सिन्दूरपुञ्जप्रभ , द्वादशयोजनदीर्घः, सूच्यङगुलसख्येयभागमूलविस्तार., नवयोजनाप्रविस्तार , विडालाकृतिधारक पुरुष, मूलशरोरमपरित्यज्यैव वामप्रदक्षिणा विधायान्त. (मनसि स्थितं विरुद्ध पदार्थ भस्मीकृत्य तेनैव मुनिना सह स्वयमपि भस्मत्व गच्छति, सोऽशुभस्तैजस्समुद्घात । (ख) तथा च लोक व्याधिभिक्षादिपीडित समवलोक्योत्पन्नानुकम्पस्य परमसयमिनो महर्षे मूलशरीरमररित्यज्य वोक्तदेहप्रमाण , सौम्याकृति. पुरुषो, दक्षिणस्कन्धाद्विनि सत्य दक्षिगगेन प्रदक्षिणीकृत्य रोगभिक्षादीन् विनाश्य पुनः स्वस्थाने प्रविशति स शुभतैजसस्मुद्घात इत्युच्यते । ६ पदे, पदार्थे वा सजातसशयस्य परमद्धिवारकस्य महर्षेः मूलशरीरमपरित्यज्यव मस्तकमध्यान्निगंत्य, निर्मलस्फटिकाकृतिरेकहस्तप्रमाणः ११२
जैनवर्शन आत्म-द्रव्यविवेचनम्