________________
कर्मरूपाः परिणमन्ति । अतस्तासां स्वत एव परिणमनशीलत्वात् नायमात्मा तत्परिणामकर्ता भवति ।
लोकस्यास्य सर्वत्रैवानंतानंतकार्माणवर्गणाभिर्निचितत्वादस्यककस्मिन्नपि प्रदेशे जीवानां स्थितिविद्यते, तथा च तत्र सर्वत्र व कर्मबन्धयोग्याः पुद्गलवर्गणाश्चापि विद्यन्ते । अतश्च जीवो यत्र यादृशः परिणमति तत्र व तादृशाः कर्मवर्गणास्तत्परिणामाद्बध्यन्ते । न तु तत्रात्मा कार्माणवर्गणा: संचोद्य बध्नाति, यतश्च यत्र व जीवस्तवानंतवर्गणाः, अतस्तत्र व परस्परं स्वत एव बन्धो जायते । अस्माद्धेतो यमात्मा पुद्गलपिण्डरूपकाणिवर्गणानां कर्ता, नापि तत्प्रेरको" भवतीति । प्रात्मनः कथञ्चित्भोक्तृत्वम् आत्मा व्यवहारापेक्षया सुखदु.खरूपपुद्गलकमफलानां भोक्तास्ति । निश्चयेन तु चेतनभावस्येव भोक्ता । स्वशुद्धात्मज्ञानाद्यो यः पारमार्थिकसुखामृतरसस्तमभुजानो य आत्मा स उपचरितासद्भूतव्यवहारनयापेक्षयेष्टानिष्टपञ्चेन्द्रियविषयोत्पन्नं सुख दुःख च भुङ्क्ते । एवमेवानुपचरितासद्भूतेव्यवहारनयापेक्षयान्त.सुखदु खोत्पादक द्रव्यकर्मरूप सातासातोदयं भुङ्क्ते । स एवात्माशुद्धनिश्चयेन हर्षविषादरूपं सुखदुःखं भुङ्क्ते । शुद्धनिश्चयेन तु परमात्मस्वभावस्य यत् सम्यश्रद्धानं, ज्ञानमाचरणञ्च तदुत्पन्नमविनाश्यानन्दरूपैकलक्षण सुखामृतं भुड्क्ते । प्रात्मन. स्वदेहप्रमाणत्वम् देहे ममत्वमूलककारणेष्वाहार-भय-मैथुन-परिग्रहादिसमस्तरागादिविभावेष्वासक्तितया, निश्चयनये न स्वदेहाद्भिन्नस्य केवलज्ञानाद्यनन्तगुणराशितोभिन्नस्यात्मशुद्धस्वरूपस्याप्राप्तितया च जीवेन यन्नामकर्मोपार्जितं, तदुदयाद्यत्सूक्ष्म-गुरुदेहप्राप्तिस्तत्प्रमाणः, आत्मप्रदेशोपसंहार-प्रसर्पणस्वभावादेहप्रमाणो भवतीति । यथा खलु प्रदीपो बह्वायामिते प्रकोष्ठे प्रतिष्ठापितः सन् तत्प्रकोष्ठस्थितान् सन्निपि पदार्थान् यथा प्रकाशयति, तथैवात्यन्तेऽल्पायामितेऽपि प्रकोष्ठे पात्र वा प्रतिष्ठापिते सति तदल्पपात्र-प्रकोष्ठस्थितान् पदार्थान् प्रकाशयति । तद्वदेवात्मापि गुरुशरीरस्थितः सन् प्रसर्पणस्वभावात्तद्देहप्रमाणः, सूक्ष्मशरीरस्थितश्चोपसहारस्वभावात् सूक्ष्मशरीरप्रमाणो भवति । किन्तु वेदना-कषायआत्मशम्बस्य व्युत्पत्तिस्तल्लक्षणं, व्याख्या च