________________
भत्र शुद्धाशुद्धभावानां यत्परिणमनं, तस्यैव जीवे कर्तृत्वं ज्ञयम्, न तु हस्तादिव्यापाररूपपरिणमनस्य यतो हि नित्यो निरञ्जनो निष्क्रियश्च य आत्मस्वरूपस्तद्भावनारहितो यो जीवस्तस्मिन्नेव कर्मादीनां कर्तृत्वम् । अर्थादात्मा व्यवहारेण पुद्गलकर्मणा निश्चयेन चेतनकर्मणां शुद्धनयेन च शुद्धभावानामेव कर्त्तास्ति ।
आत्मन: कथञ्चिदकर्तृत्वम्
परिणाम - परिणामिनो परस्परमभेदात् परिणामी एव स्वपरिणामानां कर्त्ता भवति । अत. जीवस्य य. परिणाम. स जीव एव, जीवपरिणामस्य जीवक्रियात्मकत्वात् । यतो हि यस्य द्रव्यस्य या परिणामरूपा क्रिया भवति, तया तद्रव्य तन्मय भवत्यत एव जीवस्यापि तन्मयत्वात्तत्क्रिया परिणामो वा जीवमय इत्युच्यते । या च क्रिया जीवेन स्वातन्त्र्येण विहिता सैव कर्मेति । अतश्च यदात्मनो रागादिविभावपरिणामरूपात्मक्रियया तन्मयत्व तदेवास्य भावकर्म, अस्मात्कारणादेवात्मा* भावकर्मणामेव कर्त्ता सिध्यति न तु द्रव्यकर्मणाम् ।
तथा च पुद्गलस्य यः परिणामः स पुद्गल एव परिणाम- परिणामिनोरेकत्वात्परिणामिन परिणामकर्तृत्वाच्च । सर्वद्रव्याणा परिणामरूपक्रियया तन्मयत्वात्पुलपरिणामोऽपि पुद्गलक्रिया । या च क्रिया, सैव कर्म, अतः पुद्गलस्यापि स्वातन्त्र्येण कर्तृत्वात् पुद्गलद्रव्य कर्मरूपपरिणामानामेव कर्तृ त्वम्, न तु जीवभावकर्मरूपपरिणामानाम् । इत्थ पुगलस्यैव पुद्गलरूपद्रव्यकर्मणा कर्तृत्वान्नात्मनि द्रव्यकर्मणा" कर्तृत्व व्यवतिष्ठते ।
श्रात्मन: पुद्गलस्कन्धाकतृत्वम
किञ्च द्विप्रदेशादिका. पुद्गलपरमाणुस्कन्धा. स्वत एव स्निग्ध-रूक्षगुणपरिणमनशक्त्योत्पद्यन्ते । सूक्ष्मजातीया स्थूलजातीयाश्च पृथिवी - जल-अग्नि- वायुकाया अपि स्निग्ध- रूक्षभावाना परिणमनादेव पुद्गलस्कधपर्यायरूपेणोत्पद्यन्ते । नात्रात्मनो काचनावश्यकता " तिष्ठति ।
प्रात्मन. कर्मवर्गणानामप्यकर्ता त्वमप्रेरकत्वञ्च
जीव खल्वनादिवधसंयोगादशुद्धभावेन परिणमति । तस्याशुद्धपरिणामस्य बहिरङ्गबरूप निमित्तकारण सम्प्राप्य कर्मवर्गणाः स्वीयान्तरङ्गशक्त्याष्ट
जंनदर्शन आत्म-द्रव्यविवेचनम्
११०