________________
यदा चायमात्माशुद्धोपयोगाद्राग-द्वेष-मोहभावं. ज्ञेयपदार्थान् पश्यति जानाति वा तदास्य चिद्विकाररूपाः राग-द्वेष-मोहपरिणामाः जायन्ते, एते परिणामा एव भावबन्धरूपाः । भाववन्धस्य च प्रारम्भे सति तदनुसारमेव द्रव्यकर्मणां बन्धो जायते।
परोपाधिनोत्पन्नैश्चिद्विकाररूपरागद्वेषमोहपरिणामरात्मा बध्यते । परिणामनिमित्तादेकस्मिन्नेव क्षेत्र जीवकर्मणो. परस्पर बन्धो भवति, तदा यथायोग्यस्निग्धरूक्षस्पर्शगुण. पुद्गलकर्मवर्गणानां परस्परमेकपिण्डरूपो यो बन्धो" जायते स एव द्रव्यबन्ध इत्युच्यते ।
प्रात्मन. कतृ त्वम् व्यवहारनयापेक्षयायमात्मा परपर्यायेषु निमज्जन् पुद्गलकर्मणा, अशुद्धनिश्चय - नयापेक्षया च रागद्वेषादिचेतनभावकर्मणा, शुद्धद्रव्याथिकनिश्चयनयापेक्षया तु शद्धज्ञानदर्शनादिस्वात्मभावानामेव कर्ता भवति । यद्यपीमे ज्ञान-दर्शनादिभावा आत्मनोऽभिन्नाः, तथापि पर्यायाथिकनयापेक्षया भेदात्मकत्वाद्भिन्नाश्चापि भवन्ति । अत आत्मा स्वज्ञानदर्शनादीनामपि कथचित्कर्ता तिष्ठति ।
प्रात्मनश्चेतनकर्मकर्तृत्वम् रागादिविकल्परूपीपाधिरहितेन निष्क्रियेण परमचैतन्यभावविरहितेन च जीवेन यद्रागादिकोत्पादककर्मणामुपार्जन कृतं तेषामुदये सति निर्मलमात्मज्ञानमनधिगच्छन् भावकर्मवाच्याना रागादिविकल्परूपचेतनकर्मणामशुद्ध निश्चयनयेन कर्ता भवति । अशुद्धनिश्चयस्तावत्---कर्मोपाधिजन्यत्वादशुद्ध., तथा चाग्नौ तप्तायोगोलवत्तन्मयत्वात्तद्रूपत्वाद् निश्चय., द्वयोमिश्रिते सति शुद्धनिश्चय"रित्युच्यते । शुद्ध निश्चयनयापेक्षया तु चेतनकर्मणामेव कर्ता भवति । प्रात्मनः शुद्धाशुद्धभावकर्तृत्वम् छद्मावस्थाया यदा च जीव. शुभाशुभकायवाङ्मनोयोगव्यापाररहितेन शर्तकस्वभावेन परिणमति, तदानंतज्ञानसुखादिशुद्धभावाना भावनारूपेण विवक्षिते नकदेशशुद्धनिश्चयनयेन कर्ता भवति । मुक्तावस्थायां तु शुद्धनिश्चयनयेनानंतज्ञानादिशुद्धभावानामेव कर्ता भवति ।
आत्मशग्वस्य व्युत्पत्तिस्तल्लक्षणं, व्याल्या च