________________
प्रात्मशब्दस्य व्युत्पत्तिस्तल्लक्षणं व्याख्या च प्रात्मशब्दस्य व्युत्पत्तिः जैनदर्शने षड्द्रव्येषु प्रमुखं द्रव्यं जीवाख्यम् । यतश्च तस्यैवान्यैरजीवपदार्थ. सह सयोगादस्य विश्वस्य विस्तारो जायते । तथा चायं विश्व-व्यापार सतत प्रचलमान इह दरीदृश्यते । अयं जीवस्तावदत्रात्मपदेनापि व्यवह्रियतेऽतएव जैनदार्शनिकै प्राय. सर्वत्र जीवात्मनोरभेदेन यत्र कुत्रचित् जीवस्य विवेचन कृतं तत्रात्मपदेनापि तद्बोधो कारितः । अतोऽत्र मयोभयोरपि शब्दयोव्युत्पत्तिर्यथा जैनग्रन्थेषु प्राप्यते तदनुसारमेव प्रदीयते । अतति-गच्छति जानाति इति आत्मा । 'सर्वे गत्यर्था' इति वचनात् गमनशब्देन ज्ञान भण्यते । अतः शुभाशुभरूप. कायवाङ मनोव्यापारैर्यथासम्भव तीव्रमन्दादिरूपेण ज्ञानादिगुणेषु आसमन्तात् अतति-वर्तते यः स आत्मेत्युच्यते, अथवा--उत्पादव्ययध्रौव्यत्रिकैरासमन्ताद्वर्तते य. स' आत्मेति । जीवशब्दञ्च व्याख्याययद्भि. प्राय. सर्वेरेवाचारेर्यैकमतेनेदमेवाभिहितम्यत् चतुभिः प्राणैर्यो जीवति, अजीवत, जीविष्यति च स जीव , अर्थात्त्र कालिकजीवनगुणयुक्तो जीव इति । यद्यपीमे प्राणा दशविधा भवन्ति, परन्तु मूलतश्चातुर्विध्यमेव भजन्ते, तथाहिबलप्राणाः, इन्द्रियप्राणा , आयु.प्राणा', श्वासोच्छ्वासप्राणाश्चेति । एषा विभेदात्मकत्वादविधत्वमुपजायते । तद्यथा-बलप्राणास्त्रिविधा - कायवाङ्मनोभेदात्, इन्द्रियप्राणाः पञ्चविधा.-स्पर्शन-रसन-घ्राण-चक्ष.-थोत्रभेदात् । एते अष्टौ प्राणा श्वासोच्छ्वासायु.सहिता दशविधा भवन्ति । अत्र इन्द्रियरगोचराः ये शुद्धचैतन्यप्राणास्तत्प्रतिपक्षिभूताः क्षायौपशमिका इन्द्रियप्राणाः, अनन्तवीर्यरूपाश्च ये बलप्राणास्तेषामनन्तभागेष्वेकभागप्रमाणा' कायवाङ्मन प्राणा अनाद्यनन्तशुद्धचैतन्यात्मकाः (ज्ञानरूपा.) ये प्राणास्तद्विपरीतलक्षणाः साद्यन्ता आयु प्राणाः । श्वासोच्छ्वासावागमनक्लेशरहिता ये शुद्धचित्प्राणास्तद्विपरीता. श्वासोच्छ्वासप्राणा'। एवं व्यवहारनयेन यथासम्भवं चतुभि प्राणयुक्तो जीव., निश्चयनयेन तु चेतनालक्षणयुक्तो जीव । चेतनेय ससारिषु मुक्तषु चापि प्राप्यते । तथा च त्रिकालाबाधितानविच्छन्नरूपेण सदा तिष्ठति च। अतएव पुद्गलादिरूपेन्द्रिआत्मशब्दस्य व्युत्पत्तिस्तल्लक्षणं, व्याख्याच
१०५