________________
धुवनस्पति-जीवत्व-युक्तमेकेन्द्रियजातिनामकर्मोदयात्केवलं स्पर्शनेन्द्रियसहित स्थावरत्वमथ च द्वि-त्रि-चतुःपञ्चेन्द्रियधारकत्रसनामकर्मोदयात्त्रसत्वमपि" प्राप्नुवन्ति । एतदेवैतेषा ससारिणां वैविध्यम् । सिद्धत्वमात्मनः (Liberation) सिद्धाः, मुक्तजीवाः, विमलात्मानो वा ते एव जीवाः ये खलु ज्ञानावरणाअष्टविधकर्मरहिताः, सम्यक्त्वाद्यष्टगुणधारकास्तथा चान्तिमशरीरात्किञ्चिन्यूनाः, शाश्वताः, न पुनर्जगति परावर्तनशीलाः, आत्मगुणानां पिण्डीभूताः, जन्ममरणादिविरहिताः, अमूर्तिकाश्चातएवाभेद्याः, अछेद्याश्चेतनद्रव्यस्य शुद्धपर्यायरूपास्तिष्ठन्ति ।
तथा चेमे सिद्धा ऊर्ध्वगमनस्वभावाल्लोकाग्रभागे स्थिता: उत्पाद-व्यय-ध्रौव्ययुक्तास्तिष्ठन्ति । यतो हि जीवो खलु यत्र कर्मविप्रमुक्तो भवति, तदा स तत्र व न तिष्ठत्यपितु, पूर्वप्रयोगादसङ्गाबन्धोच्छेदात्तथा च गतिपरिणामादितिहेतुचतुष्टयेनाविद्धकुलालचक्रवत्, व्यपगतलेपालम्बुवत्, एरण्डबीजवत्, अग्निशिखावच्चेति दृष्टान्तचतुष्टयवदूधर्वगमनस्वभावादूर्व गच्छति, तदूर्वगमनञ्च लोकाग्रे गतिसहायकद्रव्यस्य धर्मास्तिकायस्याभावाल्लोकानपर्यन्तमेव भवति न तत ऊर्व कथमपि गन्तु शक्नोति । तथा चैतेषु संसारकारणभूतानां द्रव्यप्राणानामभावो भवत्येव तथापि तत्र भावप्राणाना सत्त्वात्कथञ्चित् प्राणसता विद्यत एवेति । अतएवेमे शरीररहिता, अमूर्तिका', अवाग्गोचराः इत्यादिशब्दरभिधीयन्ते ।
प्रात्मनस्त्रविध्यम् यद्यपि द्रव्याथिकनयापेक्षयात्मा खल्वेकस्तदपि परिणामात्मकत्वात् पर्यायाथिकनयापेक्षया स त्रिविधो" भवति। तथाहि-- १. बहिरात्मा, २. अन्तरात्मा, ३. परमात्मा चेति । अत्र यावत् संसारिणो जीवस्य शरीरादिपरद्रव्येष्वात्मबुद्धिस्तिष्ठति, मिथ्यात्वदशावस्थितो वा भवति, तावदेवात्मा 'बहिरात्मा" इत्युच्यते । यदा च शरीरादिष्वात्मबुद्धेः, मिथ्यात्वस्य चापगते सति सम्यग्दृष्टिरात्मा 'अन्तरात्मा" इत्युच्यते । अत्रायमन्तरात्मापि उत्तम-मध्यम-जघन्यभेदैः त्रिविधस्तथाहि-समस्तपरिग्रहत्यागी, निस्पृहो, शुद्धोपयोगी, आत्मध्यानी च मुनीश्वर उत्तमोऽन्तरात्मा। देशवतानां धारकाः ग्रहस्थाः, षष्ठस्थानवर्तिनो निर्ग्रन्थाः
जनदर्शन आस्म-द्रव्यविवेचनम्