________________
कमस्ति । अत्र प्रभाकरीयं विवेचनं श्रेष्ठतमं बुद्धियुक्तञ्च प्रतिभाति भट्टापेक्षया । मुक्तावस्थायामपि मीमांसकस्यात्मा (जीवात्मा) स्वतन्त्रः, परस्परं भिन्नश्च तिष्ठति । न्याय-वैशेषिकवदेभिरपि आत्मबहुत्वं स्वीकृतम् । सांस्यपुरुषसिद्धान्तविमर्शः सांख्यदर्शने चैतन्ययुक्तमेकं तत्त्वं-'पुरुषः', तथा चाचेतनमेकम्----प्रकृतिः' । अनादिकालादेवाविद्याया: संसर्गादनयोदयोश्चेतनाचेतनयोः परस्परं सम्बन्धाच्च पुरुष-प्रतिबिम्ब निरन्तरं प्रकृती बिम्बंस्तिष्ठति । प्रकृतिश्च तच्चेतनप्रतिबिम्बसम्पर्कात् चैतन्यवदेव कार्य कर्तुं सक्षमा जायते। तथा च पुरुषबिम्बेण प्रभावितायाः प्रकृतेर्गुणानामारोप. पुरुषेऽपि जायते, येन पुरुषः स्वभावतोऽनिर्लिप्तस्त्रं गुण्यरहितोऽसङ्गयुक्तोऽपि सन् स्वकमपि कर्ता, भोक्तादिरूपेणानुभवति । ज्ञानेन च यदानयोर्द्वयोः परस्परमध्यासिता आरोपा विनश्यन्ति तदा पुरुष स्वं प्रकृतेभिन्नमनुभवति, प्रकृतिश्च पुरुषं परित्यज्य न पुनस्तदर्थ सर्जनं विदधाति । इयमेव विवेकबुद्धि. (भेदबुद्धि ) कैवल्यस्य प्राप्तिर्वोच्यते । अनयवाशेषदु.खानामात्यन्तिकी निवृत्तिर्भवतीति । पश्चाच्च विवेकबुद्धेरधिगतत्वात् पुरुषः स्वरूपस्थित एव प्रकृति पश्यति, तस्या बन्धने च न पुनः समागच्छति । इयमेवास्य पुरुषस्य मोक्षावस्थेत्युच्यते।। मुक्तावस्थाया निरपेक्षस्य पुरुषस्य प्रकृतेर्दर्शकत्वाज्ज्ञायते यत्तस्य न तत्र प्रकृतेः सत्त्वगुणाद्वा सर्वथा पृथक्त्वं जायतेऽपि तु तत्रापि सत्त्वगुणस्य कश्चन सम्बन्धस्तिष्ठत्येवान्यथा तदर्शनासमर्थत्वात् ।" अथ च तत्र दर्शने रतस्य तमोगुणस्याप्यभिभव." (गुणानां परस्परमन्योन्याभिभवाश्रयजननमिथुनवृत्तित्वात्) तिष्ठति, तथा चानयोर्द्वयोरपि पुनरप्यभिभवस्याशङ्कापि तिष्ठत्येव । तत्कथं तत्र दु.खानामात्यन्तिक्यकान्तिकी वा निवृत्तिर्भवितु शक्नोति ? अय प्रश्नः समुदेत्यत्र, किन्तु सांख्यदर्शने न कस्यचिदपि वस्तुनो सर्वथाऽभावः स्वीकृतो विद्यतेऽपि तु पदार्थस्यैकरूपादन्यमेव रूप परिणममानमवलोक्यते । एवमेवात्रापि यस्यां कस्यामप्यवस्थायां न रजसादिगुणानामभावो भवितुमर्हतीति । वाचस्पतिमिश्रेणापीदमेवोक्तम् तत्त्वकौमुद्याम् ।" अथ चात्र सांख्यदर्शनानुसारं मुक्तावस्थायां पुरुषस्य 'विवेकख्यातेः' विवेकबुद्धेः प्राप्तिरेव मुक्तित्वेन स्वीकृता। तत्र 'ख्यातिः' 'बुद्धि'र्वा सत्त्वगुणस्वरूमात्ममिवान्ताना समालोचनम्
२७१