________________
जगतश्वासद पत्वात् ताभ्यां संश्लिष्टे सति न काचिदहानिर्भाव्या? किन्तु नैतत् बास्तविक प्रतिभाति, यत् जगदिदं ब्रह्मरूपमेव । यदीदं ब्रह्मरूपमेध स्यासदा ब्रह्मणः (जीवात्मनः) कथं ब्रह्मरूपस्य (जगतः, मायायाः वा) अभावः (विनाशो वा) शक्यः स्यात्तदभावे तु ब्रह्मण एव स्वरूपाभावावभावः स्यात् । एवमेतानि सर्वाण्यपि दर्शनान्यात्मनो मोक्षस्य च स्वरूपस्यांशिकत्वेनैव विबेचकानि सन्ति । अतएव नैतेषु कस्मिंश्चिदपि दर्शने पूर्णत्वं सम्पन्नम् ।
उपसंहार: भारतीयदशनसाहित्यस्यावलोकनादिदं परिज्ञायते यद्यः खल्वात्मा वैदिककाले केवलं देवात्मरूपेण सीमित आसीत्तस्यैव क्रमशो विकासे सति, उपनिषत्सु तत्सम्बद्धानि सर्वाण्यपि सम्मतानि बीजरूपेणोपलभ्यन्ते येषामाधारेणाद्य यावदनेकानि दर्शनानि विकसितानि समृद्धानि वावलोक्यन्ते, स एव क्रमशोऽनुसन्धानविषयत्व समधिगच्छन् यामवस्थामुपगतस्तत्र प्रायशः सर्वस्तस्यव स्वरूपस्य विश्लेषितत्वात् तेस्तैराचार्यैरधिगतान्यस्य विभिन्नानि स्वरूपाणि अवलोक्यन्ते। किन्तु तेषु प्रत्येकमपि स्वरूपं सम्पूर्णस्वरूपस्यानभिव्यञ्जकत्वात् न पूर्णत्वयुक्तमतोऽत्र भारतीयेषु समग्रेष्वपि दर्शनेषु सामञ्जस्यस्य समन्वयस्य वा कृते सत्येवात्मनो वास्तविक स्वरूपं निश्चेतुं शक्यते । यच्चषु दर्शनेष्वास्तिकनास्तिकविभागार्थं ये खलु हेतवः स्वीकृतास्तेषामपि निर्णयाक्षमत्वमेवावलोक्यते, यदि नेहक तहि जैनदर्शन नास्तिकपदेन व्यवहाँ केवलं 'नास्तिको वेदनिन्दकः' नायं हेतुः निष्पक्षतया स्वीकरणीयः स्यात् । यतो हि, जैनदर्शनस्य कर्मव्यवस्थाया पुनर्जन्मनि धर्मादिशुभाचरणेषु च प्रायो वेदोपनिषत्सिद्धान्तानामेव विस्तृतेन विश्लेषणेन न वेदनिन्दकत्वं समर्थ्यतेऽपितु वेदसिद्धान्तानामेव समर्थनमवलोक्यते । यच्चतैः वेदानामपौरुषेयत्वस्य विरोधः कृतस्तत्र तत्समर्थककारणाभावाद् न कोऽपि तेषामपौरुषेयत्वं बुद्ध्या स्वीकतुं शक्नोति । किञ्चात्र जैनागमेषु यत्तत्त्वविश्लेषणं भगवता महावीरेण प्रतिपादितं विद्यते, तद्विषये जनानुश्रुत्या वक्तुं शक्यते यत् न महावीरेण कस्यचिन्नूत्नतत्त्वविश्लेषणस्य प्रतिपादनमागमेषु विहितमपितु स्वस्मादपि सार्धद्विशताब्द (२५० वर्ष) पूर्व जातः पार्श्वनाथतीर्थङ्करविश्लेषितस्यैव प्रचारः प्रसारश्च कृत आसीत् । उपसंहारः
२७५