________________
1
एवं बौद्ध:, शाश्वतवादस्योच्छेदवादस्य चातिवादितां परित्यज्याभिहितम् - यत् जगति दुःख-सुख - जन्म-मरण-बन्ध-मोक्षादयः सर्वेऽपि सन्ति परं नैषामाधारभूतः कश्चनात्मा विद्यते । इमा सर्वा अप्यवस्था. नूतनामन्यामेवावस्थामुत्पाद्य विनश्यन्ति, न पूर्वस्याः कस्याश्चित् सर्वथोच्छेदो भवति, नापि ता नित्या एव सन्ति । एवं पूर्वस्या एवास्तित्वमुत्तरत्र जायते इति ।
वैदिकात्मसिद्धान्तविमर्शः
येन विधानेन प्रकृतेनियमा शासितास्तदेव धर्मविधानमिति । यत्रायं तत्रास्य नियामकस्य कस्यचिच्चेतनस्यापि स्वीकार आवश्यक. स्यात् । यश्चास्य जड़प्रवाहरूपस्य जगद्व्यापारस्य सञ्चालकः श्रेयबुद्धिसम्पन्नश्चेतनपुरुषस्तस्यैव विचारशीलस्य धर्मप्रवणस्याधीनमिद कर्म जगत् । स एवास्य जगतो नियन्ता, शास्ता, अधिष्ठाता वास्ति । वेदेष्वस्यैव चेतनपुरुषस्य साक्षात्कारो निर्दिष्ट । स चात्र 'देवता' इत्याख्यस्तिष्ठति । वेदिका इमाः देवता एवास्या अदृष्टशक्तेः (चैतन्यस्य) विभिन्नरूपा विद्यमाना आसन् । अतः ता एव विश्वनियन्तृरूपेण स्वीकृताः ।
एवमत्र बहुदेववादस्य, एकेश्वरवादस्य चेति द्विविधदेववादस्य विद्यमानेऽपि याशं जीवात्मन. परमात्मनश्चैक्यमद्वैतवेदान्ते प्रतिपादितं विद्यते, तस्य मूलस्वरूपस्य दर्शनमपि यत्रकुत्रचिज्जायते । ऋग्वेदे त्वनेक त्रैवास्य तथैव विश्लेपणमवलोक्यते यथाऽद्वैत वेदान्ते, तथाहि अद्वैतवेदान्ते यद्ब्रह्ममाययोद्वैतं कल्पित, तस्यैव सुदर्शनमत्रास्या श्रुतावपि सञ्जायते
'रूपं रूपं प्रतिरूपो बभूव, तदस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शतादश' ॥ *
अर्थात् 'सर्वव्यापकश्चिद्रपः परमात्मा प्रत्येकशरीरनिहितबुद्धी प्रतिबिम्बितः सन् जीवभाव तथैवाधिगच्छति यथा घटस्थिते जले आकाशस्य प्रतिबिम्ब: घटाकार (घटभावम् ) अधिगच्छतीति ।
श्रौपनिषत्कात्म सिद्धान्त विमर्शः
उपनिषत्स्वात्माऽजन्मा, नित्य, शाश्वत, पुरातनश्चोक्त. । जन्म-मरणविरहितोऽय शरीरस्य विनाशे सत्यपि तिष्ठति, न कश्चनापि विकारस्तस्मि न्नुत्पद्यते - एतदेव यमराजेनापि " नचिकेतोपदेशकालेऽभिहितम् ।
२६८
जनदर्शन आत्म- द्रव्यविवेचनम्