________________
देहात्मवादिन एवेति स्वतः सिध्यति' । परमत्र यदवलोक्यते तदनुसारं तु चार्वाकाचार्यातिरिक्तं रम्यंस्तत्त्वशं सर्वेरपि देहाद्भिन्नमेवात्मनः स्वरूपं
+
स्वीकृतमिति ।
बौद्धसिद्धान्तसमीक्षा
अत्र तावत् जीवात्मजगज्जन्मनां विषये 'प्रतीत्यसमुत्पादाऽऽधारेणैव विचार: कृत इत्यवलोक्यते । प्रतीत्यसमुत्पादोऽयं मध्यममार्गीयः सिद्धान्तस्तदनुसारचैकतो न वस्तूनामस्तित्वे कश्चनापि सन्देहः, परं 'तानि वस्तूनि नित्यानि ' इति वक्तुं न शक्यते, तेषामुत्पत्तेरन्याश्रितत्वात् । अन्यतश्च न वस्तूनां पूर्णो विनाशोऽपि भाव्यः, अपितु तेषामस्तित्वं जगति तिष्ठत्येव । एवं वस्तु न तु पूर्णतया नित्यम्, नापि पूर्णतया (सर्वथा ) विनाशशीलमिति" ।
बुद्धस्यास्मिन् सिद्धान्ते नात्मनः किञ्चिदपि स्थानम्, उपनिषद्वदेषामप्यात्मा न तु नित्यः, ध्रुवो दा, नाण्यविनाश्येव । अथ चैषां दृष्ट्या तु 'आत्मवादः' महाविद्यारूप एव, अनयैवाविद्यया जीवो द्वादशावस्थाषु ( भवचक्रे) परिभ्रमंस्तिष्ठति ।
यच्चात्र रूप - वेदना - संज्ञा-संस्कार- विज्ञानपञ्चकस्य संघात एवात्मा, इत्यात्मकस्यापि सिद्धान्तस्य न वास्तविकत्वं प्रतिभाति, यतो हि बुद्धमतानुसारं पञ्चस्कन्धानां जगत्सारभूतानामप्यनित्यात्मकत्वात् दु खस्वरूपात्मकत्वाच्च तद्विषये 'इद मदीयम्' 'अयमहम्' 'अयं ममात्मा' इत्यादिक कल्पनमपि सर्वथानुचितम् यतो हि, ते रोगग्रस्ताः, बाधाग्रस्ताः अथ च क्षणिका अपि सन्ति, अतो नेते आत्मपदवाच्या, अपि तु दुःखपदवाच्या एव । एवमग्रे बौद्धः सुस्पष्टमभिहितम् - 'यदेभिर्यदा मानवजातेनं कथमपि कल्याण सम्भाव्यते, तत्कथमेतेषामूहापोहस्यावश्यकता ?" एवं तैः सर्वत्रैव पञ्चस्कन्धसमुद्भूतं शरीरं, तत्र स्थितमात्मानञ्चाप्यवास्तविकमिति स्वीकृतम् ।
बुद्धात्पूर्ववति यदात्मनः स्थानमासी सत्सम्बद्धेषु सिद्धान्तेषु परम्परागतेषु सुबहु मननं विधायान्तेऽयमेव निष्कर्ष: स्थापितः - यत् 'शरीरमेवात्मा', अयमेक एकान्त, 'शरीराद्भिन्न एवात्मा' इत्यन्यश्चैकान्तः, अनयोर्द्वयोरपि परो मध्यमार्गरूपोऽयं सिद्धान्तो यत्-नामरूपात् षडायतनानि षडायतनेभ्यः स्पर्शः, स्पर्शात् वेदना, वेदनायास्तृष्णा, तृष्णाया उपादानम्, उपादानात् भवः, भवाज्जाति: (जन्म ), जातेर्जरामरणे इति समुत्पत्तिक्रमः । आत्मसिद्धान्तानां समालोचनम्
२६७