________________
अद्वैतदर्शने जीवात्मनः परमात्मना तादात्म्यं स्वीकृतम् । उपाधिवलात् भेदस्तु कल्पित एव । एतस्या उपायेविनाशे सत्येव जीवः स्वस्वरूपमधिगच्छति । इदमेव स्वरूपं ब्रह्मणः परमात्मनो वास्ति । एतदेवात्र 'तत्त्वमसि' इति महावाक्येन सम्यगुपदिष्टम् ।
आत्मसिद्धान्तानां समालोचनम् चार्वाकसिद्धान्तसमीक्षा चार्वाकाचार्या मूलतः प्रत्यक्षवादिन एवासन् । तदनुसारं पृथिव्यप्तेजोवायुभ्य एव सृष्टे संरचनं सम्पन्नम् । अस्माद्भूतचतुष्टयादेव देहस्योत्पत्तिस्तत्र च चैतन्यस्य समावेशोऽपि सञ्जायते । यदाय देहो विनश्यति तदा तच्चैतन्यमपि नाशमुपगच्छति अतस्तदनुसारं चैतन्यविशिष्टो देह एवात्मा, न तदतिरिक्तमात्मनः कञ्चनास्तित्व विद्यते। स्त्री-पुत्र-धन-सपत्तिजन्यं सुखमेव स्वर्गरूपम, लोकप्रसिद्ध राजैव परमेश्वरः, देहस्य विनाश एव मोक्ष इति । एवमत्र चार्वाकदृष्ट्या 'अवलोकनमेव विश्वासः' इत्यनुसारं जड़पदार्था एव विश्वसनीया. सन्ति, तेषामेव दृश्यत्वात् । आत्मा-ईश्वर-पुनर्जन्मादीनि आस्तिकदर्शनतत्त्वानि तु नेन्द्रियगम्यानि, अतएवादृश्यात्मकत्वात् न तानि विश्वसनीयानि । अतस्तानि प्रति जिज्ञासा कपोलकल्पन मौर्यमेव वास्ति । अयमेवास्य भूतवाद इति, जड़वादोऽप्यस्यैव नामान्तरम् ।। जड़वादज्ञानुसार प्रत्येकमपि वस्तु पूर्व जड़ावस्थायामचेतनावस्थायामेव वा तिष्ठति, ततस्तस्यान्यावस्था चेतनावस्था, जीवितावस्था वा भवति । एवं पदार्थस्येद चेतनस्वरूपं नैसर्गिकस्य जड़रूपस्यैव परिणामोऽतो य एव पदार्थः जड़रूपः, स एव चेतनः, जीवो वा भवितुमर्हति । अत्र यच्चैतन्यं वस्तु, तत्त्व वा, तज्ज्ञान-बुद्धि-अनुभूतियुक्तम् । अनया दृष्ट्याद्यतनीय चेतनसृष्टौ मनुष्य एव महत्तमस्तथापि न स शाश्वत:, व्यापी वेति वक्तु शक्यते, तस्य सीमित-देश-कालपरिवेष्टितत्वमेवास्त्यतएवायं एकदेशीयो नश्वरश्चास्ति, तादृशेभ्य एव तत्त्वेभ्यः (भूतेभ्यः) समुत्पन्नत्वादिति । अत्र देहात्मवादविषये शङ्कराचार्येरप्युक्तम्", यत् 'देह एवात्मा' इयमेव प्रतीतिः समस्तेष्वपि जीवव्यापारेषु मूलतः 'कार्यकरणक्षमा' । ते तु इदमप्यभिदधति,यत्-'आत्मानं देहात्पृथक् गृहीतारस्तत्त्ववेत्तारोऽपि व्यवहारेण २६६
जनदर्शन मात्म-अन्यविवेचन