________________
वस्थायामपि पुरुषो न सत्त्वगुणात्सर्वथा मुक्तो भवति, अतएव मुक्तेष्वपि परस्पर वैभिन्यं विद्यते । अस्मात्कारणादेव बद्धमुक्तश्च पृथक् कश्चिदन्यः निलिप्तः, त्रिगुणातीतस्वभावो ज्ञः-शद्धस्वरूपः, पुरुषोऽवश्यमेव स्वीकरणीयः स्यात् । इत्थमत्र साख्यदर्शने एकः खलु ज्ञः पुरुषः, बद्धा मुक्ताश्च बहवः पुरुषा. । एतेषां सर्वेषामपि स्वतन्त्रमस्तित्त्वं विद्यते, येन साख्यदर्शने पुरुषस्य विध्य बद्ध-मुक्त-शुद्धस्वरूपेण सिध्यति । अत्र यः खलु शुद्धो ज्ञः पुरुष., तस्मिन् आश्रितत्वाऽलिङ्गत्व-निरवयवत्वस्वतन्त्रत्व-अत्रिगुणत्व-विवेकित्व-अविषयत्व-असामान्यत्व - चेतनत्व - अप्रसवधर्मित्व-साक्षित्व-कैवल्य-माध्यस्थ-औदासीनद्रष्ट्रत्व-अकर्तृत्वप्रभृतयः सर्वेऽपि धर्माः निलिप्तत्वादेव भवन्ति ।
पुरुषस्य बन्धः साख्यीय-पुरुष स्वभावात् निलिप्त., निस्सङ्ग , त्रिगुणातीत., नित्यश्चास्ति, अथ चाविद्यापि नित्यास्ति, अनयोविद्या-पुरुषयो. सयोगोऽप्यनादिरस्ति । प्रकृतिस्तु (अविद्या) जड़स्वभावापि नित्याऽनादिकालात् स्थिता च । अस्या यदा पुरुषस्य प्रतिबिम्ब बिम्बते, तदेय चेतनवत् स्वमनुभवति । व्युरक्रमेण च प्रकृतेराभासः पुरुषेऽपि प्रतिभासते, येन स निष्क्रिय , निलिप्तः, निस्त्रं गुण्योऽपि सन कर्ता, भोक्ता, आसक्तश्च प्रतिभाति । प्रकृते पुरुषस्य चेदमेवारोपित स्वरूप बन्धत्वेन स्वीकुर्वन्ति साख्या. । पुरुषस्य बन्ध-विच्छेदः अस्य पूर्वोक्तस्य बन्धस्याभाव.---प्रकृतिपुरुषयोर्द्वयोरपि स्व-स्वरूपस्य ज्ञानमेव साख्यदर्शने विवेकबुद्धिपदेनोच्यते । इयमेव पुरुषस्य मुक्तिः । तद्यथा-ज्ञानेनाविद्याया. विनाशे सति प्रकृति. पुरुषश्च स्व स्वरूपमभिजानत , इद ज्ञानमेव विवेकबुद्धिमुत्पादयति । विवेकबुद्धौ प्राप्तायां सत्या पुरुष स्वस्य निलिप्त निस्सङ्गञ्च स्वरूपमनुभवितु शक्तो भवति । ततश्च ज्ञानातिरिक्ताना धर्माधर्मादिसप्तभावाना प्रभावो यदा विनश्यति, न तदा सष्टे. किञ्चित् प्रयोजनमवशिष्यते । प्रकृतिस्तूद्देश्यास्यास्य पूर्णे सति विरता भवति, पुरुषश्च कैवल्यमधिगच्छति । परमत्र प्रारब्धकर्मणा पूर्व जन्मोपार्जितसस्काराणाञ्च स्थितित्वात् न तस्मिन्नेव काले शरीर विनश्यति, अतस्तेषा कर्मणा समुपभोगानन्तरमेव सस्काराणां विनाशात् शरीरमपि विनप्टं भवति, तदा च पुरुषस्य २६४
जनदर्शन आत्म-द्रव्यविवेचनम्