________________
पुरुषस्य जन्मना सर्वेषामेव जन्मभिर्भाव्यम् ? एकस्य च नियमारणे सर्वैरपि मरणीयम् ? एकस्य चान्ये बधिरे वा जाते सर्वेरेवान्धत्वेन बधिरत्वेन बा योज्यम् ? एकस्व कार्ये संलग्ने सति सर्वैरपि कार्य-संलग्नेर्भाव्यम् ? न चेत्वं दरीहश्यतेऽतो शायते-यदिदं बहुत्वमिति विशेषणं न शुवस्वरूपस्य शस्म कथमपि भवितुमर्हति, अपितु बनपुरुषस्यैवास्ति, येन जगति स्थितस्यास्य बहुत्वमुपयुज्यते। जस्य बहुत्वे विप्रतिपतयः किञ्चात्र बहुत्वमिति कैश्चित् ज्ञस्यैव (शुद्धस्वरूपस्यैव) हठात् विशेषणं स्वीक्रियते तत्तरत्रेदमवश्यं विचारणीयम्, यत्-शस्तु तावत् शुद्धस्वरूपः सन् न कदाप्युत्पद्यते, जन्म वा गृह्णाति, नापि म्रियते, नैव चान्ध-बधिरत्वमुपगच्छति, नापि च कस्मिश्चिदपि कार्ये संलग्नो भवति, नापि तस्मिन् सत्वरजस्तमसादयो गुणाः विद्यन्ते, तत्कथमेषामभावेऽपि केवलं 'बहुत्व'मेव तत्र संघटते ? अतोऽत्रायमेवार्थो ग्राह्यः, यद्बद्धः पुरुष एव जन्ममरणाद्यपेक्षया,
गुण्य विपर्ययापेक्षया च बहुत्वमधिगच्छति । अथ च सांख्यदर्शनेऽयं ज्ञः-पुरुषः, अनाद्यविद्यायाः संसर्गादनादिकालाबद्धोऽतएव शरीरस्थितो भवति, एतस्यैव (संसारस्थितस्यव) अत्र 'पुरुषः' इति सज्ञा, 'बहुत्वमस्यैव विशेषणत्वेन प्रयुक्तः' अस्यैव च प्रत्यक्षगम्यत्वादनुमानेन ग्रहणे संघातपरार्थत्वादयः पञ्चहेतवोऽभिहिताः, न तु प्रत्यक्षागम्यस्य शुद्धस्वरूपस्य ज्ञस्य ग्रहणेऽतएवात्र बद्धपुरुषयस्व बहुत्वमीश्वरकृष्णस्याभिप्रायभूत विद्यते। जस्य वैविध्यम् श्रीमद्भगवद्गीतावदत्रापि पुरुषस्य विध्यं विद्यते, तद्यथा१. निलिप्तः-ज्ञः, २. बद्धः पुरुषः (जीवात्मा) ३. मुक्तश्चेति । एतदेव तत्त्वकौमुद्याः मङ्गलाचरणे वाचस्पतिमित्रैरभिहितम्
'प्रजा ये तां जुषमाणा भजन्ते, जहत्येनां भुक्तभोगां नुमस्तान्' अत्र मिश्रमहादययोरपि बहुवचनप्रयोगात् बहुत्वमुक्तम् । जगति बद्धा जीवात्मानोऽनादिकालादेव विद्यन्ते, यदि सर्वेऽपि पुरुषाः बद्धा एव स्युस्तदा 'निर्लिप्तः, त्रिगुणातीतः' इत्यादिविशेषणवाचकाः शब्दाः किमर्थम् ? मुक्ताএলিললিকায় শালীজনাশক বিকাল
२६३