________________
भवति । अथ चायमेवात्माखण्डत्वात् पूर्णत्वाच्च सदसतो, दीर्घलघ्वोः, दूरान्तिकयोश्चेत्यादिपरस्परविरुद्धधर्माणामाधारः, अतएव विभिन्नैर्दार्शनिकविविधापेक्षयाऽनेकविधमस्य विवेचन कृतम् ।
अस्य ब्रह्मणो ज्ञानं प्रथमं क्षत्रियेष्वेवासीत्, तत एव विप्रेरधिगतमिति बृहदारण्यकोपनिषदि प्रतीयते । अतएवाग्रेऽभिहितम् - यद्य. कोऽपि स्वीयेन तपसा ब्रह्माधिगन्तु पार्यते । यतो हि न त्वयमात्मा वेदाध्ययनेन, नापि च बुद्ध्या श्रुतेन वा प्राप्यतेऽपितु यमात्मानमात्मा वृणुते तेनैवात्मना स्वमात्मानमधिगच्छति । एतदेव कठोपनिषद्यभिहितम् -
६०
१३१
'नामात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवं वृणुते तेन लभ्यस्तस्यैष श्रात्मा विवृणुते तन्न स्वाम् ॥ जीवात्मनः स्वरूपम्
मर्त्या मर्त्य, स्थिरमस्थिर वा स्वरूपं ब्रह्म परमात्मा वा अविद्यया संश्लिष्ट: सन् जीवात्मेत्युच्यते" । पूर्वजन्मनः कर्मानुसारञ्च सुखदुःखोपभोगात् जगति जन्ममरणयुक्तो भूत्वाऽत्रागमनात्पूर्वमेव स्वीय भोग्यं सर्वाङ्गपूर्ण स्थूलं शरीरं गृह्णाति । ततश्चेह - परलोकयोभ्रं मणं विधास्यन् स्वप्नेष्वपि द्वयोरपि लोकयोरेककालमेव ज्ञानमाप्नोत्ययम्, तथा च तस्मात् सुखदुःखमप्यनुभवति ।
जन्मान्तरव्यवस्था
यथा खलु स्थूलशरीरशक्ते सति जाग्रदवस्थात स्वप्नावस्थायां जीवः प्रविशति, तथैव स्वीयं जर्जरितं स्थूलं शरीरं परित्यज्याविद्याया प्रभावादन्यं नूतन शरीरं गृह्णाति । अयमेव शरीरपरित्यागः 'मरणमित्युच्यते । अस्यामवस्थायां जीवो दुर्बलोऽसंज्ञिहृदयेऽवस्थितश्च भवति । तत्र प्रथमं रूपज्ञानयोविनष्टे सति, अन्यरिन्द्रियैः सहान्तःकरणमपि तस्य शिथिलं भवति । तदा च हृदयोर्ध्वभागे समुत्थितेन प्रकाशेन सहैव तस्य जीवनशक्तिरपि स्वकर्मानुसारं शरीरछिद्र ेभ्य. शरीराद्बहिर्निःसरति । तदापि तस्मिन् 'वासना' स्पष्ट परिलक्ष्यते, यस्याः प्रभावाज्जीवस्य जन्मान्तरस्वरूपस्य" निर्णयो भवति ।
परमपदप्राप्तिः
अत्रानेन यत्कृतमासीत्तदनुसारमेवान्यज्जन्मोपलभ्यतेऽतएवैनमन्यज्जन्म सम्यग् नर्मातुं शुभकर्माणि ज्ञानाप्तये योगाभ्यासः, सद्ग्रन्थानामध्ययनञ्च विधेयम् । यस्मात् शुभकरणात् " शुभदेह स्वरूप- देशमवाप्नोति ।
जेनेत रदर्शन दृष्ट्याऽऽत्मद्रव्यस्य समालोचनात्मकं विवेचनम्
२५७