________________
पश्चात् ब्रह्मणो देवोत्पत्तिरूपेण ब्रह्मतत्त्वस्य व्यापकं रूपमवलोक्यते । अत्र च 'आत्मा' 'ब्रह्म' चेत्युभावपि पृथक्पृथगेवाभिहिते । ब्रह्मणो देवानामुत्पादकत्वेऽपि तेभ्योऽभिन्नत्वम्, आत्मनश्च देवेभ्यः पृथक्त्वं स्वीकृतम् ।
एवं ब्राह्मणारण्यकग्रन्थेषु देवोत्पत्तिहेतुभूतब्रह्मस्वरूपातिरिक्तमेवात्मस्वरूपं जन स्वीकृतम् स्वस्वबुद्ध्या । तथाहि - शतपथब्राह्मणे तु शरीरस्य मध्यमभागमेवात्मत्वेनाभिहितम्। पुनश्च त्वक्- -शोणित-मांसाऽस्थिभ्य आत्मशब्दस्य " प्रयोगो विहित. । पश्चाच्च मन. बुद्ध्यहङ्कारचित्तेभ्योऽपि एष शब्दः " प्रयुक्तः । तथा च जाग्रत्स्वप्न सुषुप्ति-तुरीयावस्थाभ्योऽप्यात्मशब्दप्रयोगो" दृश्यते । ततश्चाकाशादभिन्न स्वीकृत्यात्मन पृथक्सत्ता" दृष्टिगोचरीभवति ।
आरण्यक ग्रन्थे पूक्तात्मस्वरूपातिरिक्तं प्राणैरभिन्नमात्मस्वरूप " 'विज्ञानमयः' 'आनन्दमय'श्चेति स्वीकृतम्, अन्ते चैतस्यैव स्वरूपस्य परिचयः प्रदत्तः " । ऐतरेय ब्राह्मणेऽस्यात्मन. स्वरूपं 'द्यावापृथिव्योर्मध्यवत्तिन आकाशादभिन्नमुक्तम्, यदा हि, ऐतरेयारण्यके आत्मन एव लोकसृष्टिरभिहिता, तथा चैतस्य निरुपाधि-सोपाधिस्वरूपाणा वर्णनं प्रस्तूय चित्स्वरूपेण पुरुषेण ब्रह्मणा " वैक्यं स्वीकृतम् । अन्यत्रापि च सुस्पष्टमभिहितम्, यत् शुद्धचैतन्यव्यतिरिक्तो न कश्चनाप्यन्य पदार्थो जगति विद्यते, देवाः, जङ्गमा. स्थावरा वा जीवाः, यत्किञ्चिद्वा जगति विद्यन्ते, तत्सर्वमप्यात्मैव एतस्मादेव सर्वेषां सृष्टि: स्थितेर्लयश्चात्रं व" । एवमात्मनो स्थूलतमात्परिच्छिन्नस्वरूपात्समारभ्य सर्वव्यापकसूक्ष्मतमस्वरूपस्य वर्णनमारण्यकेषु प्राप्यते ।
उपनिषत्स्वात्मा
उपनिषदां प्रमुख प्रतिपाद्यमात्मैवास्ति । सहितात. समारभ्यारण्यकं यावत् यद्ब्रह्मात्मनः पृथक् प्रतिपादितम् विद्यते, तदेवात्र तदभिन्नं" स्वीकृतम् । तथा चानयोरैक्यं स्वीकृत्य नात्मातिरिक्तः कश्चनापि सत्पदार्थ - जगति स्वीकृत । अर्थाद् दृष्टृदृश्ययोश्चाभेदत्वादात्मनः सर्वव्यापित्वम् सम्पन्नम्, अतएव बृहदारण्यकोपनिषद्युक्तम्"
'सवा श्रयमात्मा ब्रह्मविज्ञानमयो मनोमयः प्राणमयश्चक्ष मंयः श्रोत्रमयः पृथिवीमय: श्रापोमय:-- धर्ममयोऽधर्ममयः सर्वमयः' इत्यादि ।
अयमेवात्मा ब्रह्मति वा प्राणापान- व्यानोदानवायुरूपेणास्मत्-शरीरं रक्षति, अयमेवात्मा बुभुक्षा- पिपासा-शोक-मोह जरामरणेभ्योऽस्मानुद्धारयति । अस्यैव ज्ञानात् सुतार्थस्वर्गादिप्राप्त्यभिलाषतो विरक्तो भूत्वा जीवः संन्यस्तो " जनदर्शन आत्म-द्रव्यविवेचनपु
२५६