________________
अर्थस्य सद्भावे सुखिनोऽभावे तु दुखिनः सजायन्ते । यस्य च पार्थों विद्यते, स एव स्वतन्त्रः, महान्, सर्वकार्यकरणक्षमः ज्ञानी चेत्युच्यते। अस्मात्कारणात् 'अर्थ एवात्मा' इति स्वीकृतम् । चार्वाकाणामेतेष्वात्मसिद्धान्तेषु सर्वत्र व भूतानां प्राधान्यादयं सिद्धान्तः 'भौतिकवादः' इत्येवोच्यते । नेते भूतेभ्योऽपि परं किञ्चिद्विमर्शयितुं क्षमाः । भौतिकवादित्वादेतैराकाश-प्राण-मनसामपि पदार्थत्वं स्वीकृतम्। प्राणास्तावत् जलीयपदार्था', मनश्चान्नमयोऽस्मात्कारणात् एतयोरपि भौतिकत्वं छान्दोग्योपनिषदि' सुम्पष्टमभिहितम् ---- 'अन्नमशितं धा विधीयते । तस्य यः स्थविष्ठो धातुस्तत्पुरोष भवति, यो मध्यस्तन्मांसं, योऽणिष्ठस्तन्मनः' । 'प्रापः पीतास्त्रेधा विधीयन्ते । तासां यः स्थविष्ठो धातुस्तन्मूत्रं, यो मध्यमस्तल्लोहितं, योऽरिणष्ठः स प्राणः ॥ बौद्धदर्शनीयात्मविचाराः भगवन्तं बुद्धं यदा तत्त्वज्ञानमभूत्तदाऽऽत्मसाक्षात्कारोऽपि सञ्जातः । परन्त्वास्मसाक्षात्कारो जीवस्य परम लक्ष्यमिति जानन्नपि तैरात्मनो विषये न किञ्चिदप्युक्तम् । यतो ह्यत्र तेषामियं धारणासीत्, यत् कर्तव्यनिष्ठानामुपासनेन तपसा चान्त करणशुद्धिजन्यमात्मज्ञान स्वत एव भविष्यति । अतएव ते कर्मसम्बन्ध्युपदेशं प्रागेव प्रदत्तम् । आत्मनो विषये च 'आत्मा शरीराद्भिन्नोऽभिन्नो वा ? मूर्तोऽमूतॊ वा ? मरणानन्तरमप्यय तिष्ठति न वा' ? इत्यादिप्रश्नानामुत्तरे मौनमेव स्वीकृतम् । अतो बौद्धदर्शने आत्मविषयकचर्चाणामभाव एव प्रायशोऽवलोक्यते ।
किञ्चात्र यद्र प-वेदना-सज्ञा-संस्कार-विज्ञानपञ्चकस्य सघात (सयोग)रूपत्वेनात्मनः स्वीकृतिरवलोक्यते । तद्विषये रीजडेविड्स"महोदयैरभिहितम्-- यन्नतेषा संयोगाद् ऋते जीवात्मा तिष्ठति, सय गश्च क्रियमाणाद् ऋतेऽसम्भव , क्रियमाणञ्चैकस्मात् भिन्नक्रियमाणाद् ऋतेऽसम्भवम्, विभागं विना चेद भिन्न क्रियमाणमप्यसम्भवम्, अतोऽयमस्त्येकस्तिरोभावो यः खलु पूर्व पश्चाद्वा कस्मिश्चित्काले पूर्ति गमिष्यत्येवेति' । एवमियमेका शाश्वता:विच्छिन्ना च प्रक्रियैव, यस्या नाम रूपञ्च किञ्चिदपि स्थायि" न विद्यते । अस्यात्मनो विषये प्रकृतेरनात्मविषये च वच्चगोत्तभिक्ष भिर्यदा बुद्धैः पृष्टं तदा तैर्मोनमेव धतम् । ततश्चास्य मौनस्य, प्रश्नानामुत्तरस्य च विषये यदा२५४
जनवर्भन आत्म-भाव्यविवेचन