________________
मनसः परायत्तानि । मनसोऽनवस्थानात् शरीरं न कार्यकरणक्षमं भवति, मनस्तु स्वतन्त्रं जानदञ्चास्ति । अतो मनस एवात्मरूपेण स्वीकरणं 'आत्ममनोवादः' इत्यभिधीयते । उपनिषद्यप्येतदेवोक्तम्-'अन्योऽन्तर आत्मा मनोमयः। इन्द्रियात्मवादः शरीरं त्विन्द्रियाधानम्, इन्द्रियाण्येव सर्वकार्यकर्तृ णि, यथा च श्रुतावपि प्रतिपादितम्-'ते ह प्राणाः पितरं प्रेत्य ऊचु.' इति । अथ 'चान्धोऽहम्' 'बधिरोऽहम्' इत्याद्यनुभवोऽपि जायते। एषु सर्वत्र 'अहम्' इतिपदमात्मार्थमेवाभिदधाति । एवमिन्द्रियाण्येवात्मेति चार्वाकेष्वेकतरसम्प्रदायेन स्वीकृतम् । किञ्चात्रापिएकेन्द्रियात्मवादो मिलितेन्द्रियात्मवादश्चेति द्वैविध्यमवलोक्यते । तत्रैकस्मिन् देहे एकमेवेन्द्रियमात्मेति स्वीकरणमेकेन्द्रियात्मवादोऽथ चेन्द्रियाणां समूह एवात्मेति मिलितेन्द्रियात्मवाद' इत्युच्यते । प्राणात्मवादः देहे खल्विन्द्रियाणां प्राणाधीनत्वं, प्राणानाञ्च प्राधान्यमस्ति । प्राणवायौ नि मृते सति शरीरमिन्द्रियाण्यपि च म्रियन्ते। प्राणाना स्थितौ तु शरीरमपि जीवति, इन्द्रियाण्यपि च कार्य कुर्वन्ति । तथा च बुभुक्षा-पिपासादीना प्राणधर्मत्वादेव 'बुभुक्षितोऽहं' 'पिपासितोऽहम्' इत्यादिव्यवहारो जायते । अतएव कश्चिदाचार्यः 'प्राणा एवात्मा' इत्युक्तम् । अयमपि प्राणात्मवाद उपनिषदा समर्थितोऽनेन वाक्येन-'अन्योऽन्तर आत्मा प्राणमय.' । पुत्र एवात्मा अन्ये चेत्थमभिदधति-यत् 'पुत्र एवात्मा'इति । यतो हि, पुत्रसुखात् पिता सुखी भवति, दु.खाच्च दुखी भवति, पुत्रस्य च मृते सति तद्विरहजन्यशोकात् सोऽपि म्रियते, जगति यत्र कुत्रचित् साक्षात्परिलक्ष्यतेऽपि । अतएव 'पुत्र एवात्मा' इत्यस्य पुष्टि. कौषीतक्युपनिषत्कृता विहितानेन वाक्येन-'आत्मा व जायते पुत्र."।
अर्थ एवात्मा केचन चात्र 'लौकिकोऽर्थ एवात्मेति स्वीकुर्वन्ति । तेषां कृतेऽर्थ एव प्रियतमः, यतो हि, अर्थस्य विनाशे सति तेऽपि शोकस्ता भूत्वा म्रियन्ते । जीवा अपि नेतरदर्शनहष्ट्याऽस्मद्रव्यस्य समालोचनात्मक विवेचनम्
२५३