________________
जीवस्य शुद्ध-बुद्ध-सर्वानन्दस्वरूपात्मकत्वाज्जगति स्थितस्यापि स्ववास्तविकस्वरूपाधिगमनाय यत्क्रियाशीलत्वं तदुःखनिवृत्यर्थमेवोपजायते । आत्मदर्शनाच्च दुःखनिवृत्तिर्भवतीति सर्वेः स्वीकृतमेव । अत एव सर्वैरात्मान्वेषणं तदर्शनार्थ साधनान्वेषणञ्च क्रियते। अत्र चार्वाकसम्प्रदायेऽनेके सिद्धान्ता आत्मविषयका विद्यन्ते, तेषु निम्नलिखिताः प्रमुखाः ।
भूतचैतन्यवादः प्राणिना पृथक्पृथग्बुद्ध्यात्मकत्वात्, यथा कस्यचित् मिष्टभक्षणेन, कस्यचिच्चाम्लभक्षणेनापरस्य च तिक्तरसेनानन्दानुभवस्तथैव यस्य येन दुःखनिवनिर्जायते 'तदेवात्मेति तस्य स्वीकरण स्वाभाविकम् । अत्र चार्वाकाणामिदम्मतम् ---शरीरे यच्चतन्य तत्खलु भूतानां सस्थानाद्यदृच्छयवोत्पद्यते, न केनचिद्विशिष्टेन हेतुनेति । यथा खलु द्वयोश्चतुर्णा वा पदार्थाना सम्मेलनात् प्रत्येक प्रति मादकशक्त्यभावेऽपि, सम्मिश्रणे सति मादकशक्तिरुत्पद्यते तथैव भूतानामपि (पृथिप्यप्तेजोवायूनापि) सम्मिश्रण, प्रत्येक प्रति चैतन्यस्याभावेऽपि यदृच्छया चैतन्यमुत्पद्यते । यथा हि-वृष्टौ मण्डूकादय. कीटपतङ्गादयश्च स्वत एव भूतेभ्यः समुत्पद्यन्ते, तथैव मनुष्यादिजीवेष्वपि चैतन्यमनायासमेवोत्पद्यते । एतन्मतानुसारमात्मैक. स्वतन्त्र , प्रियतम.. चैतन्ययुक्त , कर्मणा कर्त्ता चेत्यादिगुणविशिष्टः प्रत्यक्षगम्यश्चास्ति, यतश्चाय भूताना सम्मिश्रणादुत्पद्यते । देहात्मवाद लोके दृश्यते यदग्निना गृहे दग्धे सति तत्र पुत्र-भार्यादीन्नपि परित्यज्य स्वकमेव तस्मादपसारयन्ति जनाः। अनेन ज्ञायते यत्पुत्रादिभ्योऽप्यधिक देह. प्रिया, तदेवोक्तम्- 'आत्मनस्तु कामाय सर्व प्रिय भवति' इत्यादि । चैतन्यं, सर्वा. क्रियाश्चापि देह एव सन्ति, अतएव चार्वाकसिद्धान्ते स्वीकृतम् 'चैतन्यविशिष्टः काय पुरुष' । एतदनुसारं शरीरस्य मृते सति न तु चैतन्यं, नापि क्रियास्तवाशिष्यन्ते, एतदेवावलोक्यते तैत्तिरीयोपनिषदि-'स वा एष अन्नरसमय पुरुष । 'स्थूलोऽहम्' 'कृशोऽहम्' 'कृष्णोऽहम्' इत्याद्यनुभवैश्चापि देह एवात्मेति निश्चीयते, अयमेव 'देहात्मवादः' इत्युच्यते। प्रात्ममनोवादः केचन च चार्वाकाचार्या इत्थमभिदधति-यत् शरीरस्य सर्वाण्यपि कार्याणि २५२
जनदर्शन आत्म-द्रव्यविवेचनम्