________________
जैनेत र दर्शनदृष्ट्याऽऽत्मद्रव्यस्य समालोचनात्मकं विवेचनस्
भारतीयदर्शनानां यत् स्वरूपम् सम्प्रति संस्कृतवाङ्मये दरीदृश्यते, तस्य मूल:धारात्मक आत्मैवास्ति । जगद्दावानलेन दग्धो जीवो दुःखनिवृत्तेरेकमात्रं साधनम् 'आत्मसाक्षात्कार' एवेति यदा विजानाति शृणोति वा ततः प्रभृति स आत्मान्वेषणे प्रवर्तते । अनयैव प्रेरणया यावदद्भिर्महर्षिभिराचार्यैव ये ये प्रयत्नास्तदन्वेषणे विहितास्तेषां परिणामरूपेण यादृश: साक्षात्कारस्तेरात्मनोऽधिगतस्तस्य विश्लेषणं स्वस्वसिद्धान्तेषु विहितमिति प्रथमाध्याये एवोक्तम् । तेषा तत्तत्सिद्धानामध्ययनेनेदं परिज्ञायते, यदात्मनो विभिन्नस्वरूपाणामेव पृथक्पृथक् साक्षात्कारो येन महर्षिणा येनोपायेनाधिगतः, तयोरेव तत्तद्दर्शनेषु विश्लेषणात्मकत्वादेकस्यैवात्मद्रव्यस्य जन्मनः समारभ्य मरणं यावद् विभिन्नरूपाणां जन्मान्तराणां, मृत्योरनन्तरं भाविन. सर्वकर्मविप्रमोक्षरूपस्य मोक्षस्य च भिन्न-भिन्नरूपेण विवेचनं विद्यते ।
जैनाचार्यास्तु प्रत्येकमपि द्रव्यमनन्तधर्मात्मक मेवामनन्त्यतस्तैस्तैराचार्यैः कृतस्य यस्य कस्याप्यायधर्मस्य साक्षात्कारात्मकस्य विश्लेषणस्य च न हेयत्वं स्वीकुर्वन्त्यपितु तेषा सर्वाण्यपि स्वरूपाण्यात्मधर्मत्वेन स्वीकृत्य पृथग् विवेचनात्मकस्य कस्यचिदेकस्य सिद्धान्तस्यात्मनो धर्मेकविवेचकत्वादप्रामाण्यमभिदधति, यतो हि नात्मनि केवलं स एव धर्मो विद्यतेऽपितु तेऽपि धर्मास्तस्मिन् सततं विद्यन्ते येषामन्यैरपि आचार्यैरेकान्तेन विश्लेषणं कृतम् । एवं विभिन्नदर्शनेषु विश्लेषितानामात्मसिद्धान्तानां कीदृशं साम्यं, कश्च विशेष: इत्येवात्र विवेच्यते ।
चार्वाकदर्शनापेक्षायात्मविवेचनम्
भारतीय दर्शनेषु चार्वाक - जैन-बौद्धानां नास्तिकत्वं सर्वैः स्वीक्रियते, किन्तु याथार्थ्येन कानि दर्शनानि नास्तिकपदयोग्यानि, इति प्रथमेऽध्याये एवास्तिकनास्तिकविवेचने स्पष्टं जातम् । तदनुसृत्य प्रथमं चार्वाकानुसारमत्रात्मनो विश्लेषणं क्रियते ।
जैनेत र दर्शन दृष्ट्याऽऽत्मद्रव्यस्य समालोचनात्मक विवेचनम्
२५१