________________
सुखस्यास्वादनेन निश्चलचित्तवृत्तिर्वीतरागचारित्रम्, तत्रावरणमेव 'चारित्राचारः' इति । तपश्चरणाचारः समस्तेष्वपि परद्रव्येष्विच्छायाः निरोधेन, अथ चानशनावमौदार्यादिद्वादशविधतपश्चरणरूपेण बहिरङ्गसहकारिकारणेन स्वस्वरूपे प्रतपनं, विजयनं निश्चयत्तपश्चरणमित्युच्यते, तत्राचरणं यत्तदेव 'निश्चयतपश्चरणाचार:' इति।
वीर्याचारः एतेषां दर्शन-ज्ञान-चारित्र-तपश्चरणाचाराणां रक्षणाथ स्वशक्ते रनवगृहनं 'निश्चयवीर्याचार' इति । एतेषा पञ्चविधानामप्युपदेशकत्वेनैतेषु पञ्चविधेष्वप्याचारेषु स्व परञ्चानुष्ठानेन सम्बन्धयति यः स 'आचार्यपरमेष्ठि'. पदभाग्भवति।
सिद्धाः (Perfect or Liberated Souls) येषामष्टविधकर्मणा बन्धो विनष्टः, ततश्च तत्सम्बन्धिनोऽष्टमहागुणाः समुत्पन्नास्ते नित्यमेव लोकाग्रस्थितिशीलाः परमात्मानः 'सिद्धाः,१२ इत्युच्यन्ते। अर्थात् शुभाशुभकायवाङ्मन क्रियाद्वैतकर्मकाण्डस्य विनाशनक्षमेण, स्वशुद्धास्मस्वरूपभावनयोत्पन्नरागादिविकल्परहितेन, परमानन्दकलक्षणेन, सुमनोहारिणानन्दनिःस्यन्दिना, क्रियारहिताद्वैतपदवाच्येन, परमज्ञानकाण्डेन विनष्टाः ज्ञानावरणाद्यष्टकर्मरूपपञ्चदेहाः यस्य स ज्ञानकाण्डभावनाया परिणामरूपेण, सकल-निर्मलकेवलज्ञान-दर्शनद्वयेन लोकालोकगताना, गतागतानागतकालेषु स्थिताना समस्तानामपि पदार्थानां सम्बन्धिनोः सामान्य-विशेषयोरेकसमय एव दर्शक-ज्ञायकत्वात् लोकालोकयो ष्टा ज्ञाता च भवति । स पुन निश्चयनयापेक्षया इन्द्रियागोचरपरमज्ञानोच्छलननिर्भरशुद्धस्वभावधारणेनाकाररहितोऽपि व्यवहारेण भूतपूर्वनयापेक्षयान्तिमशरीरात्किञ्चिन्यूनाकारधारक सन् सिक्थगत ('मोम' गत) भूषाग कारवच्छायाप्रतिबिम्बवद्वा पुरुषाकारस्तिष्ठति । एतल्लक्षणयुक्त स आत्मा 'अञ्जनसिद्ध.' 'पादुकासिद्धः' 'गुटिकासिद्धः' 'खङ्गसिद्धः' 'मायासिद्ध'श्चेत्यादिलौकिकसिद्धेभ्यो भिन्नलक्षणः, केवलज्ञानाद्यनन्त२४६
जनदर्शन मात्म-द्रव्यविवेचन