________________
गणाभिव्यक्तलक्षणः 'सिद्धपरमेष्ठी'त्युच्यते, स च लोकशिखरस्थः कायवाङ्मनस्त्रिगुप्तिरूपं यद्रू पातीतं ध्यानं तेन ध्येयो भवतीति । महन्तः (Worshipfull Lords) यो निश्चयरत्नत्रयात्मकेन शुद्धोपयोगरूपेण ध्यानेन घातिचतुष्टयप्रमुखस्य मोहनीयस्य प्राग्विनाशात्तदनन्तरञ्च ज्ञानावरण-दर्शनावरणान्तरायपातित्रिकस्य विनाशकत्वाच्च धातिचतुष्टयप्रणष्टकर्मः, ततश्चानन्त-ज्ञान-दर्शनसुख-वीर्याप्तानन्तचतुष्टयत्वात् सहजशुद्धाविनाशिज्ञान-दर्शन-सुख-वीर्यः, निश्चयेन शरीरविरहितोऽपि व्यवहारापेक्षया सप्तधातुभी रहितस्य सहस्रसूर्यसमप्रभस्य परमोदारिकशरीरस्य धारणात् शुभदेहो विराजतेर्हन्नित्युच्यते । एवञ्च क्षुधा-तृष्णा-भयद्वेषाद्यष्टादशदोषाभावात् शुद्धः, निरञ्जनः, आप्त आत्मा ज्ञानावरणीय-दर्शनावरणीयान्तरायकर्मणां विनाशात्, इन्द्रादिदेवविरचितां, गर्भावतारजन्माभिषेकादिपञ्चविधमहाकल्याणरूपां पूजामहति, अतएव 'अर्हन्' इत्युच्यते इति ।
सन्दर्भोल्लेखाः १. स्थासू-२३५७ ।। २. तसू (ससि०)-१।४॥ ३. उसू-२६७१-७३ ॥ ४. उसू २८२-३,५,१५,२६,३०,३५ ।।
५ दवसू-४।१४-२५॥ ६. स्थासू-३।३।१६० ॥ ७. दश्रु-२१-३,५।११,१६ ॥ ८. तसंप-(पृ० १०४) । ६. उसू-२८।१०॥ १०. तवा-२। ।१॥ ११. तसू-१।२ ।। १२. वृद्रस (टीका)-४३॥ १३. तसू-१॥३॥ १४. बन्धो व्याख्यातः, पञ्चमेध्याये ॥ १५. यस्य बन्धस्य फलमवश्यमेव भोक्तव्य, तन्निकाचनम् ।। १६. द्रव्यक्षेत्रादिनिमित्तः कर्मणां या फलदानशक्तिः स उदयः ।। १७. फलदानानन्तरमात्मनः कर्मणां च सम्बन्धविच्छेदो निर्जरा ॥ १८. ताधिभा-११३ ॥
१९. गोसाजी-६५१ ॥ २०. तसा (असू०)-'भेदःसाक्षादसाक्षाच्च' ।
२१. तवा-१।२।२६॥ २२. ताधिभा-१॥२॥ २३. तवा-१३१०२ ॥ २४. गोसाजी-३०० ।। २५. गोसाजी-२६६॥ २६. तवा-
११॥ २७. तवा-
१२॥ २८. प्ररप्र-१४॥२२५॥ २६. तवा-१।१४।१॥ ३०. गोसाजी-३०६ ॥ ३१. गोसाजी-३०८॥ ३२. तवा-१।१५८।। ३३. गोसाजी-३०७ ॥ सम्बोल्लेला
२४७