________________
उपाध्यायाः (Preceptors) किञ्च-स्वशुद्वात्मन्युत्तमोऽभ्यासः निश्चयस्वाध्यायः । तस्य निश्चयस्वाध्यायस्वरूपधारकस्य निश्चयध्यानस्य परम्परया कारणभूताना भेदाभेदरूपरत्नत्रयाणां, जिनकथितपदार्थानाञ्चोपदेशकाः, सर्वविधेच्छाविरहिताः, अतएव निःकाङ्क्षभावसहिता 'उपाध्यायाः' भवन्ति । अर्थात्-ये खलु बाह याभ्यन्तररूपरत्नत्रयाणामनुष्ठानेन युक्ताः, जीवाजीवादिषद्रव्येषु, पञ्चास्तिकायेषु, सप्ततत्त्वेषु, नवपदार्थेषु च क्रमशः स्वशुद्धमात्मद्रव्यम्, स्वशुद्धो जीवास्तिकायः, स्वशुद्धमात्मतत्त्वम्, स्वशुद्धः आत्मपदार्थ एवोपादेयः, अन्ये सर्वेऽपि त्याज्याः इति, तथा च उत्तम-क्षमा-मार्दवादिदशधर्माणां पालनार्थं नित्यमेवोपदिशन्ति, ते उपाध्यायाः स्वाध्यायप्रवचनपरायणाः, पञ्चेन्द्रियविषयाणा विजेतृषु स्वशुद्धात्मनि यत्नपरायणेषु यतिवरेषु प्रधानरूपाः १९ भवन्ति । waruf: (Heads of the Order of Saints) निरुपाधेः शुद्धात्मनो भावनानुभूत्योर्यः साक्षात्कारस्तव्याप्तेर्धारको यः निश्चयनयापेक्ष पञ्चविधाचारस्तयुक्ताः, पञ्चेन्द्रियदलनाः, गुणगम्भीरा आचार्यपरमेष्ठिन:२० । तत्पञ्चविधमाचरणं तु यथादर्शनाचारः 'निश्चयनयविषयभूतः, शुद्धसमयसारपदवाच्यः, भाव-द्रव्यनोकर्मादिपरपपदार्थेभ्यो भिन्नः, परमचैतन्यविलासलक्षणो यः शुद्धात्मा स एवोपादेयः' एतादृशी रुचिरेव सम्यग्दर्शनम्, तस्मिन् यदाचरणपरिणमनं, तदेव 'निश्चयदर्शनाचार' इति । ज्ञानाचारः एतस्यैव शुद्धात्मनोपाधिरहितेन स्वसंवेदनरूपेण भेदज्ञानेन मिथ्यात्वरागादिपरभावेभ्यः पृथक्परिज्ञानं, तदेव सम्यग्ज्ञानमिति, तस्मिन् यदाचरणं तदेव 'निश्चयज्ञानाचार' इति । चारित्राचारः एतस्मिन्नेव शुद्धात्मनि रागद्वेषादिविकल्परूपोपाधिरहितस्य स्वाभाविकमुक्तास्मनां स्वरूपम्
२४५