________________
रामनरेशमिथः
एम० ए०, एल० टी०, साहित्याचार्यः प्रस्तोता ( म० प्रा० ) संस्कृतविश्वविद्यालयः, वाराणसी
प्राचार्य: श्रीमहावीर विश्वविद्यापीठप नई, दिल्ली
वि० ३०-७-१६७३
दिल्लीस्थस्य श्रीमहावीरविश्वविद्यापीठस्य जैनदर्शन विभागाध्यक्षपदमाजा परियोपालडाक्टर मुक्ताप्रसादेन साध्यवसायं प्रणीतो 'जैनदर्शन आत्मद्रव्यविवेचनम्' इत्याख्यः शोषप्रबन्ध मयाऽवलोकितः । आत्मविषयक दुरूह विवेचनस्यापि सारल्येन समुपस्थापनम्, दार्शनिकवैभिन्न्यस्य निरूपणमित्यादिवैशिष्ट्यसम्पन्नोऽयं प्रबन्धो दर्शनाध्येतृणामनुसन्धातृणाञ्च महतीमुपकृति विधास्यतीति दृढं विश्वसिमि ।
af
रामनरेशमिभः
प्रध्यक्षः, जैनदर्शनविभागस्य, वाराणसेय संस्कृत विश्वविद्यालय,
३०-६-१६७३
भारतसर्वकारार्थसाहाय्येन भगवतो महावीरस्य २५०० तमनिर्वाणमहोत्सवप्रसङ्ग प्राच्यविद्याशोधअकादम्या शोधग्रन्थमालान्तर्गतं प्रकाश्यमानो डा० मुक्ताप्रसादस्य 'पटेरिया' इत्युपाह वस्य "जैनदर्शन आत्मद्रव्यविवेचनम्" इत्याख्यः शोधप्रबन्धो जैनवाङ्मयाधारेणार्ह दार्शनिक सिद्धान्तः परिपुष्ट आधुनिकविश्लेषणपद्धत्या च प्रथित आत्मस्वरूप निरूपयति । शोधप्रबन्धेऽस्मिन् जैनेतरदर्शनीयाऽऽत्म विषयकमान्यतानां समीक्षात्मकविवेचनदिशि जैनीयाऽऽत्मसिद्धान्तानां संशोधिते नूने च परिवेशे प्रस्तुतीकरणम्, विषयप्रतिपादन पृष्ठभूमौ सबलाभियुक्तिभिर्जेन दर्शनस्य नास्तिकत्वनिरासः, प्राचीनत्वसाधकप्रमाणानां समावेशः, द्रव्यव्यवस्थाया वैज्ञानिकदृष्टयनुकूल सामयिकस्वरूपेण प्रतिपादनञ्च कृतेर्वेशिष्ट्यमुपादेयत्वञ्च पुष्णन्ति ।
विद्वत्परिवारेण समाहतः सन्नयं प्रबन्धो मुक्ताप्रसादं मौक्तिकैः नितरां प्रसीदयत्वित्यभिलषमाणः
अमृतलाल :