________________
AXE
डा० लालबहादुरशास्त्री, एम ए., साहित्याचार्य, पी-एच, डी
जैनदर्शनविभागः श्रीलालबहादुरशास्त्रीकेन्द्रीयसंस्कृतविद्यापीठम्
दिल्ली ३०-६-१९७३
जैनदर्शन-व्याकरण - पुराणेतिहासाचार्य - विद्यावारिधि (Ph. D.)प्रभृत्युपाधीरलकुर्वता डा० मुक्ताप्रसादेन 'पटैरिया' इत्युपाह वेनोपन्यस्तोऽयं महानिबन्धो 'जैनदर्शन आत्मद्रव्यविवेचनम्' मया सम्यग्दृष्टिपथमनायि । अनेन यूना विदुषा प्रबन्धान्तर्गतेषु विषयेषु गम्भीरसरणि मवलम्ब्य यद्विवेचन समुपस्थापित तत्सर्व प्रशसाहमिति वक्तु शक्यते मया । जना आत्मद्रव्य केन रूपेणाङ्गीकुर्वन्तीति जैनवाङ्मयस्य समग्रो विषयो हृद्यमनवद्य हृदि निधाय, स्पाद्वाद सम्मुख विधाय, दूर विहाय च सर्वविप्रतिपत्तीः, साङ्गोपाङ्ग सविस्तरं समीचीन सम्यगालोचित । आत्मद्रव्यविवेचनप्रसङ्ग तत्प्रयोजनभूतेषु षड्द्रव्येषु दर्शनान्तरीयद्रव्यातराणामन्तर्भावो भवतीति युक्तिपुरस्सर प्रतिपादितम् । विषयप्रतिपादनात्प्राक् तदाधारभूतो जैनधर्मः कदा समजनीत्यादितत्कालनिर्णयप्रसङ्ग न केवल पुराणस्मृतिभ्य. पर वेदेभ्योऽप्यनेकानि प्रमाणानि समुद्धृत्याय रथैव प्राचीनो यथा ऋग्वेदादय. सन्तीति यदुल्लिखित तदस्य निपुणमतेरन्वेषणश्रमस्य परिचायकमस्ति । नास्तिकास्तिकगवेषणाया जैनधर्म आस्तिक एवेत्यादिप्रभूतैः पुष्टप्रमाण. प्रचोदितमनेन, वेदनिन्दकत्वेन चास्य नास्तिकत्व प्रतिक्षिप्त साधूक्तिभिः ।
भारतसर्वकारार्थसाहाय्येन प्राच्य-विद्या शोध-अकादम्या प्रकाशनमुपगतः शोधप्रबन्धोऽयं विद्व ज्जनादरास्पदाय डा० मुक्ता सादस्य प्रसादाय च कल यतामिति शुभट्टामयमान.
लालबहादुरः शास्त्री