________________
५२ देवेन्द्रसूतिविरचितखोपज्ञटीकोपेतः
[गाया मूलादिवद् रूक्षं भवति तद् रूक्षस्पर्शनाम ८॥ १०॥ उक्तमष्टया सर्शनाम । इदानी वर्णादिचतुष्कोत्तरविंशतिभेदानां शुभाशुभत्वयोरभिषित्सया पाह
नीलकसिणं दुगंधं, तिसं कडयं गुरुं खरं रुक्खं ।
सीयं च असुहनवगं, इकारसगं सुभं सेसं ॥४१॥ 'नीलकृष्णं' नीलकृष्णाख्ये कर्मणी अशुभे, दुर्गन्धनाम, "तितं कडुयं" इति तिक्तकटुके रसनाम्नी, गुरु खरं रूक्षं शीतं चेति चत्वारि स्पर्शनामानि । एतानि च सर्वाण्यपि समुदितानि किमुच्यते ? इत्याह-'अशुभनवकं' नव प्रकृतयः परिमाणमस्य प्रकृतिवृन्दस्य तद् नवकम् , अशुभं च तद् नवकं च अशुभनवकम् । 'एकादशकम्' एकादर्शप्रकृतिसमूहरूपं, यथा रक्तपीतश्वेतवर्णाः, सुरभिगन्धः, मधुराऽम्लकषायरसाः, लघुमृदुस्निग्धोष्णस्पर्शा इति 'शुभं' शुभविपाकवेद्यत्वात् शुभखरूपम् । कीदृशं तत् ? इत्याह---'शेष' कुवर्णनवकाद् अवशिष्टम् , कोऽर्थः ? कुवर्णनवकात् शेषा एकादश वर्णादिभेदाः शुभवर्णैकादशकमुच्यत इति ॥ ११ ॥ ___ अधुना गतिनामातिदेशेनाऽऽनुपूर्वीचतुष्टयम्, आनुपूर्वीसम्बन्धेनोत्तरत्रोपयोगिप्रकृतिसमुपायसङ्घाहिनरकद्विकादिरूपं संज्ञान्तरं, विहायोगतिद्विकं चाभिधातुमाह
घउह गइ व्वष्णुपुव्वी, गइपुग्विदुगं तिगं नियाउजुयं ।
पुव्वीउदओ वक्के, सुह असुह वसुट्ट विहगगई ॥४२॥ चतुर्षा गतिरिवाऽऽनुपूर्वी प्रागुक्तरूपा भवति । कोऽर्थः ?--गत्यभिधानन्यपदेश्यमानुपूनाम, ततो निरयानुपूर्वीतियंगानुपूर्वीमनुष्यानुपूर्वीदेवानुपूर्वी भेदत आनुपूर्वीनाम चतुर्धति तात्पर्यम् । तत्र नरकगत्या नामकर्मप्रकृत्या सहचरिताऽऽनुपूर्वी नरकगत्यानुपूर्वी, तत्समकालं चास्या वेधमानत्वात् तत्सहचरितत्वम् । एवं तिर्यग्मनुष्यदेवाऽऽनुपूर्योऽपि वाच्याः। "गइपुश्विदुर्ग" ति इह पूर्वीशब्देनाऽऽनुपूर्वी भण्यते, आनुशब्दलोपः "ते लग्वा" (सि० ३-२१०८) इति सूत्रेण, यथा देवदत्तः देवः दत्तः इति । ततो नरकादिगतिनरकाद्यानुपूर्वीखरूपं नरकादिद्विकमुच्यते । तदेव त्रिकमभिधीयते-गतिपूर्वीद्विकमिह काकाक्षिगोलकन्यायेन सम्बध्यते । कीदृशं तद् ? इत्याह-'निजायुयुतं' नरकाद्यायुष्कसमन्वितं नरकादित्रिकमुच्यत इति हृदयम् । उपलक्षणत्वाद् वैक्रियषट्कं विकलत्रिकम् औदारिकद्विक वैक्रियद्विकम् आहारकद्विकम् अगुरुलघुचतुष्कं वैक्रियाष्टकमित्याद्यनुक्तं संज्ञान्तरं ग्राह्यम् । तत्र देवगतिर्देवानुपूर्वी नरकगतिर्नरकानुपूर्वी वैक्रियशरीरं वैक्रियानोपानमिति वैक्रियषट्कम् । द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां जातयो विकलत्रिकम् । औदारिकशरीरं औदारिकालोपाङ्गमित्यौदारिफद्विकम् । वैक्रियशरीरं वैक्रियानोपानमिति वैक्रियद्विकम् । आहारकशरीरम् आहारकाङ्गोपाङ्गमित्याहारकद्विकम् । देवगतिर्देवानुपूर्वी देवायुर्नरकगतिर्नरकानुपूर्वी नरकायुर्वेक्रियशरीरं वैक्रियाङ्गोपाङ्गमिति वैक्रियाष्टकम् । अगुरुलघु १ उपघातरपराघात३उच्छ्वास४लक्षणमगुरुलघुचतुष्कमिति । ननु आनुपूर्व्या उदयो नरकादिपु किमृजुगत्या गच्छत आहोखिद् वक्रगत्या ? इत्याशङ्कयाह-"पुडीउदओ वक्के" ति पूर्व्याः-आनुपूर्व्या वृषभस्य नासिकारज्जु
१°शसङ्ख्याप्रकृ° ख० ग० उ०॥