________________
४१-४४]
कर्मविपाकनामा प्रथमः कर्मग्रन्थः । कल्पाया उदयः-विपाको वक्र एव भवति । अयमर्थः-नरके द्विसमयादिवोस मच्छतो जील नस्कानुपूळ उग्रः, तिर्यक्षु द्विसमयादिचक्रेण जीवस मच्छतस्त्रियमानुपूर्जा दमः, मनुष्येषु द्विसमयादिवशेण गच्छतो जीवस्य मनुष्यानुपूर्व्या उदयः, देवेषु द्विसम्याविककेण गच्छतो जीवस्य देवानुपूर्ध्या उदयः । उक्तं च वृहत्कर्मविपाके
नरयाउयस्स उदए, नरए वक्केण गच्छमाणस्स । नरयाणुपुखियाए, तहिँ उदओ अन्नहिं नत्थि ॥ (गा० १२२) एवं तिरिमणुदेवे, तेसु वि वक्केण गच्छमाणस्स ।
तेसिमणुपुबियाणं, तहिं उदओ अन्नहिं नत्थि ॥ (गा० १२३) तथा विहायसा-आकाशेन गतिर्विहायोगतिः, सा द्विधा-'शुभा' प्रशस्ता 'अशुभा' अप्र. शस्ता । क्रमेणोदाहरणमाह-“वसुट्ट" ति वृषः-वृषमः सौरमेयो बलीवर्द इति यावत् , ततो वृषस्य उपलक्षणत्वाद् गजकलभराजहंसादीनां प्रशस्ता विहायोगतिः । उष्ट्र:-करभः क्रमेलक इति यावत् , तत उष्ट्रस्य उपलक्षणत्वात् खरतिड्डादीनामप्रशस्ता विहायोगतिरिति ॥ ४२ ॥ व्याख्याताः पिण्डप्रकृतीनामुत्तरभेदाः, साम्प्रतमष्टौ प्रत्येकप्रकृतीरभिघित्सुराह
परघाउदया पाणी, परेसि बलिणं पि होइ दुद्धरिसो।
ऊससणलद्धिजुत्तो, हवेइ उसासनामवसा ॥४३॥ परान् आहन्ति-परिभवति परैर्वा न हन्यते-नाभिभूयत इति पराघातम् , तन्निबन्धनं नाम पराघातनाम । ततः 'पराघातोदयात्' पराघातनामकर्मविपाकात् 'प्राणी' जन्तुः परेषाम्' अन्येषां 'बलिनामपि' बलवतामपि आस्तां दुर्बलानामित्यपिशब्दार्थः, 'भवति' जायते 'दुर्धर्षः' अनभिभवनीयमूर्तिः । अयमर्थः--यदुदयात् परेषां दुष्प्रधर्षः महौजखी दर्शनमात्रेण वाक्सौष्ठवेन वा महाभूपसभामपि गतः सभ्यानामपि क्षोभमुत्पादयति प्रतिपक्षप्रतिभाप्रतिघातं च करोति तत् पराघातनामेत्यर्थः १। 'उच्छ्वासनामवशाद्' उच्छ्वासनामकर्मोदयेन 'उच्छ्सनलब्धियुक्तो भवति' उच्छासैलब्धिसमन्वितो जायते, यदुदयाद् उच्चसनलब्धिरात्मनो भवति तद् उच्छासनाम २ । सर्वलब्धीनां क्षायोपशमिकत्वाद् औदयिकी लब्धिर्न सम्भवतीति चेत् , नैतदस्ति, वैक्रियाहारकलब्धीनामौदयिकीनामपि सम्भवाद्, वीर्यान्तसयक्षयोपशमोऽपि चात्र निमित्तीभवतीति सत्यप्यौदयिकत्वे क्षायोपशमिकव्यपदेशोऽपि न विरुध्यते ॥ ४३ ॥
रविबिंबे उ जियंगं, तावजुयं आयवाउ न उ जलणे।
जमुसिणफासस्स तहि, लोहियवनस्स उदउ ति॥४४॥ 'आतपाद्' आतपनामोदयाद् जीवानामङ्गं-शरीरं 'तापयुतं' खयमनुष्णमप्युष्णप्रकाशयुक्तं भवति । आतपस्य पुनरुदयो रविबिम्ब एव, तुशब्द एवकारार्थः। कोऽर्थः!-भानुमण्डलादिपार्थिवशरीरेण्वेव 'न तु' न पुनः 'ज्वलने' हुतभुजि । अत्र युक्तिमाह-'यद्' यस्मात् कारणात् 'तत्र' ज्वलने-ज्वलनजन्तुशरीरे तेजस्कायशरीर इत्यर्थः उष्णस्पर्शस्योदयस्तथा
१ नरकायुष उदये नरके वक्रेण गच्छतः । नरकानपूळखत्रोदयोऽन्यत्र नास्ति ॥ एवं तिर्यमनुष्यदेवेषु तेष्वपि वक्रेण गच्छतः । वेषामानुपूर्वीणां तत्रोदयोऽन्यत्र नास्ति ॥ ३ सनिःश्वास ०.००