________________
देवेन्द्रसूरिविरचितस्त्रोपज्ञटीकोपैतः
[ गाथा
लोहितवर्णस्योदय इति, तेजस्कायशरीराण्येवोष्णस्पर्शोदयेनोष्णानि लोहितवर्णनामोदयात्तु प्रकाशयुक्तानि भवन्ति, न त्वातपोदयादिति भावः । यदुदयाद् जन्तुशरीराण्यात्मनाऽनुष्णान्यप्युष्णप्रकाशरूपमातपं कुर्वन्ति तद् आतपनामेत्यर्थः ३ ॥ ४४ ॥ अणुसिणपयासरूवं, जियंगमुजोयए इहुजोया । जहदेवुत्तरविक्कियजोइसखज्जोयमाह व्व ॥ ४५ ॥ इह 'उद्योताद्' उद्योतनामोदयेन 'जीवानं' जन्तुशरीरम् 'उद्योतते' उद्योतं करोति, कथम् ? इत्याह- अनुष्णप्रकाशरूपम्, उष्णप्रकाशरूपं हि वहिरप्युद्योतत इति तद्व्यवच्छेदार्थमनुष्णप्रकाशरूपमित्युक्तम् । आह क इवोद्योतोदयाद् जन्तुशरीराण्यनुष्णप्रकाशरूपमुद्योतं कुर्वन्ति ? इत्याह- 'यतिदेवोत्तरवै क्रियज्योतिष्कखद्योतादय इव' तत्र यतयश्व - साधवः देवाश्व -सुराः यतिदेवाः, यतिदेवैर्मूलशरीरापेक्षयोत्तरकालं क्रियमाणं वैक्रियं यतिदेवोत्तरवैक्रियम्, ज्योति - काः- चन्द्रग्रहनक्षत्रताराः, खद्योता:- प्रतीताः, ततो यतिदेवोत्तरवैक्रियं च ज्योतिष्काश्व खद्योताश्च ते आदिर्येषां रतौषधीप्रभृतीनां ते यतिदेवोत्तरवैक्रियज्योतिष्कखद्योतादयस्त इव । er Herdsmeक्षणिकः । अयमर्थः - यथा यतिदेवोत्तरवैक्रियं चन्द्रग्रहादिज्योतिष्काः स्वद्योता रत्नौषधीप्रभृतयश्वानुष्णप्रकाशात्मकमुद्योतं विदधति तथा यदुदयाद् जन्तुशरीराण्यनुष्णप्रकाश रूपमुद्योतमातन्वन्ति तद् उद्योतनामेत्यर्थः ४ ॥ ४५ ॥
५४
अंगं न गुरु न लहुयं, जायइ जीवस्स अगुरुलहुउदद्या । तित्थेण तिहुयणस्स वि, पुजो से उदओ केवलिणो ॥ ४६ ॥ 'अगुरुलघुदयाद्' अगुरुलघुनामोदयेन जीवस्य 'अ' शरीरं न गुरु न लघु 'जायते' raft न्तु अगुरुलघु । यत एकान्तगुरुत्वे हि बोढुमशक्यं स्यात्, एकान्तलघुत्वे तु वायुनाsपह्रियमाणं धारयितुं न पार्येत । यदुदयाद् जन्तुशरीरं न गुरु न लघु नापि गुरुलघु किन्त्वगुरुलघुपरिणामपरिणतं भवति तद् अगुरुलघुनामेत्यर्थः ५ । 'तीर्थेन' तीर्थकरनामकर्मवशात् 'त्रिभुवनस्यापि ' देवमानवदानवलक्षणत्रिलोकलोकस्यापि 'पूज्यः' अर्म्यचनीयो भवति । 'से' तस्य तीर्थकर नामकर्मण: 'उदय' विपाकः 'केवलिनः' उत्पन्न केवलज्ञानस्यैव । यदुदयाद् जीवः सदेवमनुजासुरलोकपूज्यमुत्तमोत्तमं “तित्थं भंते ! तित्यं ? तित्थयरे तित्थं ? गोममा ! अरिहा ताव नियमा तित्थंकरे, तित्थं पुण चाउवन्ने समणसंघे पढमगणहरे चा ॥" (भग० श० २० उ० ८ पत्र ७९२ -२ ) इति परममुनिप्रणीतघर्मतीर्थस्य प्रवर्तयितृपदमवाप्नोति तत् तीर्थ करनामेत्यर्थः ६ ॥ ४६ ॥
अंगोवंग नियमणं, निम्माणं कुणइ सुत्तहारसमं । Bearer वहम्म, सतणुवयवलंबिगाईहिं ॥ ४७ ॥
'निर्माण' निर्माणनाम 'अङ्गोपाङ्ग नियमनम्' अङ्गप्रत्यङ्गानां नियतप्रदेशव्यवस्थापनं 'करोति' विदधाति, अंत एवेदं 'सूत्रधारसमं ' सूत्रभृत्कल्पम् । यदुदयाद् जन्तुशरीरेष्वङ्गोपाङ्गानां
१ तीर्थं भदन्त ! तीर्थम् ? तीर्थकर स्वीर्थम् ? गौतम ! अर्हस्तावनियमात् तीर्थङ्करः, तीर्थं पुनञ्चतुर्वर्णः श्रमसङ्घः प्रथमगणधरो वा ॥ २ ततः सू० ख० ॥