________________
५५
१५-४८] कर्मविपाकनामा प्रथमः कर्मग्रन्थः । प्रतिनियतखानवृत्तिता भवति तत् सूत्रधारकल्पं निर्माणनामेत्यर्थः । तदमावे हि तद्धृतककल्पैरङ्गोपाङ्गनामादिभिर्निर्वर्तितानामपि शिरउदरादीनां स्थानवृत्तेरनियमः स्यात् ७ । 'उपघाताद' उपघातनामोदयाद् ‘उपहन्यते' विनाश्यते जन्तुः, कैः. इत्याह-खा-खकीया तनुः-शरीरं खतनुस्तस्या अवयवाः-अंशा ये लम्बिकादयः, आदिशब्दात् प्रतिजिहाचौरदन्तादिपरिग्रहस्तैः, "सतणुवयव" इत्यत्र अकारलोपः प्राकृतत्वात् । यदुदयात् खशरीरान्तःप्रवर्धमानैर्लम्बिकापतिजिहाचौरदन्तादिभिर्जन्तुरुपहन्यते तद् उपघातनामेत्यर्थः ८॥ ४७ ॥ व्याख्याता अष्टौ प्रत्येकप्रकृतयः । साम्प्रतं त्रसदशकं व्याख्यानयन्नाह
वितिचउपणिंदिय तसा, बायरओ बायरा जिया थूला।
नियनियपज्जत्तिजुया, पज्जत्ता लद्धिकरणेहिं॥४८॥ प्रस्यन्ति-उष्णाघभितप्ताः सन्तो विवक्षितस्थानाद् उद्विजन्ते गच्छन्ति च छायाद्यासेवनार्थ स्थानान्तरमिति त्रसाः, तत्पर्यायविपाकवेद्यं कर्मापि त्रसनाम । ततः 'सात्' सनामोदयाद जीवाः "बितिचउपणिदिय" त्ति इन्द्रियशब्दस्य प्रत्येकं योगाद् द्वे इन्द्रिये स्पर्शनरसनलक्षणे येषां ते द्वीन्द्रियाः, शङ्खचान्दनककपर्दजलकाकृमिगण्डोलकपूतरकादयो भवन्ति । त्रीणि स्पर्शनरसनघ्राणलक्षणानीन्द्रियाणि येषां ते त्रीन्द्रियाः, यूकामत्कुणगर्दभेन्द्रगोपककुन्थुमैत्कोटकादयः । चत्वारि स्पर्शनरसनघाणचक्षुर्लक्षणानीन्द्रियाणि येषां ते चतुरिन्द्रियाः, मक्षिकाअमरमशकवृश्चिकादयः । पञ्च स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपाणीन्द्रियाणि येषां ते पञ्चेन्द्रियाः, मत्स्यमकरहरिहरिणसारसराजहंसनरसुरनारकादयो भवन्तीति । यदुदयाद् जीवास्त्रसा द्वित्रिचतुःपञ्चेन्द्रिया भवन्ति तत् त्रसनामेत्यर्थः १ । 'बादराद्' बादरनामोदयाद् 'जीवाः' जन्तवो बादराः-स्थूला भवन्ति ।
बादरत्वं चेह न चक्षुर्माह्यत्वमिष्टम् , बादरस्याप्येकैकस्य पृथिव्यादिशरीरस्य चक्षुर्माह्यत्वाभावात् । तस्माद् जीवविपाकित्वेन जीवस्यैव कश्चिद् बादरपरिणामं जनयति एतद् , न पुद्गलेषु, किन्तु जीवविपाक्यप्येतत् शरीरपुद्गलेष्वपि काञ्चिदप्यभिव्यक्तिं दर्शयति । तेन बावराणां बहुतरसमुदितपृथिव्यादीनां चक्षुषा ग्रहणं भवति, न सूक्ष्माणाम् । जीवविपाकिकर्मणः शरीरे खशक्तिप्रकटनमयुक्तमिति चेत् , नैवम् , जीवविपाक्यपि क्रोधो भूभनत्रिवलीतरङ्गितालिकफलकक्षरत्खेदजलकणनेत्राघातानत्वपरुषवचनवेपथुप्रभृतिविकारं कुपितनरशरीरेऽपि दर्शयति, विचित्रत्वात् कर्मशक्तेरिति ।। ___ यदुदयाद् जीवा बादरा भवन्ति तद् बादरनामेत्यर्थः २ । 'पर्याप्तात्' पर्याप्तनामोदयाद् जीवा निजनिजपर्याप्तियुता भवन्ति । तत्र पर्याप्ति म पुद्गलोपचयजः पुद्गलग्रहणपरिणमनहेतुः शक्तिविशेषः, सा च विषयभेदात् षोढा--आहारपर्याप्तिः १ शरीरपर्याप्तिः २ इन्द्रियपर्याप्तिः ३ उच्छ्वासपर्याप्तिः ४ भाषापर्याप्तिः ५ मनःपर्याप्तिः ६ चेति । तत्र यया बाह्यमाहारमादाय खलरसरूपतया परिणमयति सा आहारपर्याप्तिः १ । यया रसीभूतमाहारं रसामुग्मांसमेदोऽस्थिमज्जाशुक्रलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः २ .यया धातुरूपतया परिण
१°मर्कोटका ख० घ००॥