________________
. देवेन्द्रसूरिविरचितस्वोपज्ञडीकोपेतः
[ माया
सिमाहारमिन्द्रियरूपतया परिणमथति सा इन्द्रियपर्याप्तिः ३ । वया पुनरुच्छ्वासप्रायोग्यवर्गमालिकमादाय उच्छ्वासरूपतया परिणमय्याऽऽलम्ब्य च मुञ्चति सा उच्छ्वासपर्याप्तिः ४ । तु भाषाप्रायोग्यवर्गणाद्रव्यं गृहीत्वा भाषात्वेन परिणमय्याऽऽलम्ब्य च मुञ्चति भाषापर्याः ५ । यया पुनर्मनोयोग्यवर्गणादलिकं गृहीत्वा मनस्त्वेन परिणमय्याऽऽलम्ब्य भ मुखति सा मनःपर्याप्तिः ६ । एताश्च यथाक्रममेकेन्द्रियाणां द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाऽसंज्ञिपश्ञ्चेन्द्रियाणां संज्ञिपञ्चेन्द्रियाणां च चतुःपञ्चषट्सया भवन्ति । तथा बैक्रियशरीरिणां शरीरपर्याप्तिरेवैका आन्तर्मौहूर्तिकी, शेषाः पञ्चाप्येकसामयिक्यः । औदारिकशरीरिणां पुनराहार पर्याप्तिरेवैका एकसामयिकी, शेषाः पुनरान्त मौहूर्तिक्यः । आह च--- वेवियपज्जती, सरीर अंतमुहु सेस इगसमया । आहारे इगसमया, सेसा अंतमुहु ओराले ||
ततः पर्याप्तयो विद्यन्ते येषां "अम्रादिभ्यः " (सि० ७ - २ - ४६ ) इति अप्रत्यये ते पर्याप्ताः, तद्विपाकवेद्यं कर्मापि पर्याप्तनाम । यदुदयात् स्वपर्याप्तियुक्ता भवन्ति जीवास्तत् पर्याप्तनामेत्यर्थः ३ । ते च पर्याप्ता द्विधा - लब्ध्या करणैश्च । तत्र ये स्वयोग्यपर्याप्तीः सर्वा अपि समर्थ्य प्रियन्ते नार्वाकू ते लब्धिपर्याप्ताः ये च पुनः करणानि - शरीरेन्द्रियादीनि निर्वर्तितवन्तस्ते करणपर्याप्ता इति ।
५९
ननु च शरीरपर्याप्त्यैव शरीरं मविष्यति, किं प्रागभिहितेन शरीरनाम्ना ?, नैतदस्ति, साध्यमेदात् । तथाहि —शरीरनाम्नो जीवेन गृहीतानां पुद्गलानामौदारिकादिशरीरत्वेन परिणतिः साध्या, शरीरपर्याप्तेः पुनरारब्धशरीरस्य परिसमाप्तिरिति । अथ प्रागुक्तेनोच्छ्वासनाम्नैवोच्छ्रसनस्य सिद्धत्वाद् इहोच्छ्रासपर्याप्तिर्निर्विषयेति नैवम्, सतीमप्युच्छासनामोदयेन जनितामुच्छ्रसनलथिमात्मा शक्तिविशेषरूपामुच्छासपर्याप्तिमन्तरेण व्यापारयितुं न शक्नुयात् । यथा हि शरीरनामोदयेन गृहीता अप्यौदारिकादिशरीर पुद्गलाः शक्तिविशेषरूपां शरीरपर्याप्तिं विना शरीररूपतया परिणमयितुं न शक्यन्त इति शरीरनाम्नः पृथग् इष्यते शरीरपर्याप्तिः, एवमत्राप्युच्छासनाम्नः पृथगुच्छासपर्याप्तिरेष्टव्या, तुल्ययुक्तित्वादिति ॥ ४८ ॥
पत्तेय तणू पत्तेउयेणं दंतअट्टिमाइ थिरं । नाभुवरि सिराह सुहं, सुभगाओ सव्वजणहट्टो ॥ ४९ ॥ 'प्रत्येकोदयेन' प्रत्येकनामकर्मोदयवशाद् जन्तूनां 'प्रत्येकं तनुः' पृथक् पृथक् शरीरं मबति, यदुदयाद् एकैकस्य जन्तोरेकैकं शरीरमौदारिकं वैक्रियं वा भवति तत् प्रत्येकनामेत्वर्थ: 8 | 'स्थिरं स्थिरनामोदयेन दन्ताऽस्य्यादि निश्चलं भवति, यदुदयात् शिरोऽस्थिग्रीवादीनामवयवानां स्थिरता भवति तत् स्थिरनामेत्यर्थः ५ । 'शुभं' शुभनामोदयात् नाभ्युपरि शिआदिर्भवति, यदुदयाद् नामेरुपर्यवयवाः शुभा भवन्ति तत् शुभनाम, शिरःप्रभृतिभिः स्पृष्टः परो हृष्यतीति तेषां शुभत्वम् ६ । 'सुभगात्' सुभगनामोदयेन सर्वजनेष्टो भवति,
१ बैकियपर्याप्तिः शरीरे आन्तमौहूर्तिकी शेषा एकसामयिक्यः । आहारे ( पर्याप्तिः ) एकसामयिकी शेषा आन्तमौहूर्तिक्य औदारिके ॥