________________
'
.
AG
५०
कर्मविपाकनामा प्रथमः कर्मग्रन्थः । पदुदयाद् अनुपकार्यपि सर्वस्य मनःप्रियो भवति तत् सुभगनामेत्यर्थः ७ । तदभ्यधायि
अणुवकए वि बहूणं, होइ पिओ तस्स सुभगनामुदओ ति। सुभगुदए वि हु कोई, कंची आसज्ज दूभगो जइ वि। जायएँ तहोसाओ, जहा अभवाण तित्थयरो ॥ सुसरा महुरसुहझुणी, आइज्जा सव्वलोयगावओ।
जसओ जसकित्ति इओ, थावरदसगं विवज्जत्थं ॥५०॥ 'सुखरात्' सुखरनामोदयेन मधुरः-माधुर्यगुणालङ्कृतः सुखयतीति सुखः-सुखदो ध्वनिःखरो भवति, यदुदयाद् जीवस्य खरः श्रोत्रप्रीतिहेतुर्भवति तत् सुखरनामेत्यर्थः ८ । 'आदेयाद' आदेयनामोदयेन सर्वलोकेन समस्तजनेन ग्राह्यम्-आदेयं वचः-वचनं यस्य स तथा, यदुदयाद् यत्किञ्चिदपि ब्रुवाणो जीवः सर्वस्योपादेयवचनो भवति, दर्शनसमनन्तरमेव तस्याभ्युत्थानादि समाचरति तद् आदेयनामेत्यर्थः ९ । “जसउ" तिं यशःकीर्तिनामोदयाद् यशःकीर्तिर्भवति । तत्र सामान्यतस्तपःशौर्यत्यागादिसमुपार्जितयशसा कीर्तनं-संशब्दनं श्लाघनं यशःकीर्तिरुच्यते । यद्वा
__ दानपुण्यकृता कीर्तिः, पराक्रमकृतं यशः ।
अथवा
एकदिग्गामिनी कीर्तिः, सर्वदिग्गामुकं यशः । १० इति । व्याख्यातं त्रसदशकम् । सम्प्रति स्थावरदशकं व्याचिख्यासुरतिदिशति--'इतः' त्रसदशकात् स्थावरदशकं विपर्यस्तं' विपरीतार्थ भवति । तथाहि-तिष्ठन्तीत्येवंशीला उष्णाद्यमितापेऽपि तत्परिहाराऽसमर्थाः स्थावराः, "स्थेशमासपिसकसो वरः” (सि०५-२-८२) इति वरप्रत्ययः, पृथिवीकायिका अप्कायिकास्तेजस्कायिका वायुकायिका वनस्पतिकायिका एकेन्द्रियाः, तद्विपाकवेद्यं कर्मापि स्थावरनाम । तेजोवायूनां तु स्थावरनामोदयेऽपि चलनं खाभाविकमेव, न पुनरुष्णाद्यमितापेन द्वीन्द्रियादीनामिव विशिष्टम् १ इति । यदुदयात् सूक्ष्माः पृथिवीकायिकादयः पञ्च भवन्ति तदपि जीवविपाकि सूक्ष्मनामकर्म २ इति । यदुदयात् पूर्वोक्तखयोग्यपर्याप्तिपरिसमाप्तिविकला जन्तवो भवन्ति तद् अपर्याप्तनाम, अपर्याप्तयो विद्यन्ते येषां तेऽपर्याप्ता इति कृत्वा, तन्निबन्धनं नाम अपर्याप्तनाम । तत्र द्वेषा अपर्याप्ताः-लब्ध्या करणैश्च । तत्र येऽपर्याप्तका एव सन्तो नियन्ते, न पुनः खयोग्यपर्याप्तीः सर्वा अपि समर्थयन्ति ते लब्ध्यपर्याप्ताः। ये पुनः करणानि-शरीरेन्द्रियादीनि न तावत् निर्वर्तयन्ति, अथ चावश्यं पुरस्ताद निवर्तयिष्यन्ति ते करणापर्याप्ताः । इह चैवमागमः-लब्ध्यपर्याप्ता अपि नियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमाप्तावेव नियन्ते नार्वाक्, यस्मादागामिभवायुर्बद्धा नियन्ते सर्व एव देहिनः, तच्चाहारशरीरेन्द्रियपर्याप्तिपर्याप्तानामेव बध्यत इति ३ । यदुदयाद् अनन्तानां जीवानां साधारणम्-एकं शरीरं भवति तत् साधारणनाम १ । यदुदयात् कर्णधूजिहाद्यषयवा
१ अनुपकृतेऽपि बहूनां भवति प्रियस्तस्य सुभगनामोदयः ॥ सुभगोदयेऽपि खलु कश्चित् कश्चिदासाद्य दुर्भगो यद्यपि । आयते तदोषातू यथाऽभव्यानां तीर्थकरः ॥ २°ति यशसः यशोनामकर्मोदयेन यशःकी ग०॥