________________
५८
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
अखिराः -- चपला भवन्ति तद् अस्थिरनाम ५ । यदुदयाद् नामेरघः पादादीनामवयवानामशुमता भवति तद् अशुभनाम, पादादिना हि स्पृष्टः परो रुष्यतीति तेषामशुभत्वम् । कामिनीव्यवहा रेण व्यभिचार इति चेत्, नैवम्, तस्य मोहनिबन्धनत्वात्, वस्तुस्थितिश्चेह चिन्त्यत इति ६ । यदुदयवशाद् उपकारकृदपि जनस्याऽप्रियो भवति तद् दुर्भगनाम । उक्तं चउवगारकारगो वि हु, न रुश्चई दूभगो उ जस्सुदए । ७ इति ।
यदुदयात् खरभिन्नहीनखरो भवति तद् दुःखरनाम ८ । यदुदयवशाद् युक्तियुक्तमपि ब्रुवाणो नाऽऽदेयवचनो भवति न च लोकोऽभ्युत्थानादि तस्य करोति तद् अनादेयनाम ९ । यदुदयात् पूर्वप्रदर्शिते यशःकीर्ती न भवतस्तद् अयशः कीर्तिनाम १० इति ॥ ५० ॥
व्याख्यातं द्विचत्वारिंशद्भेदं त्रिनवति भेदं त्र्युत्तरशत मेदं सप्तषष्टिभेदं षष्ठं नाम । सम्प्रि द्विभेदं गोत्रकर्माभिधित्सुराह-
गोयं दुहुचनीयं, कुलाल इव सुघडभुंभलाईयं ।
विग्धं दाणे लाभे, भोगुवभोगेसु विरिए य ॥ ५१ ॥
.
याया
गोत्रं प्राग्वर्णितशब्दार्थं 'द्विधा' द्विभेदम्, कथम् ? इत्याह – 'उच्चनीचं' उच्चं च नीचं च उच्चनीचम्, उच्चैर्गोत्रं नीचैर्गोत्रमित्यर्थः । एतच्च 'कुलाल इव' कुम्भकारतुल्यम् । शोभनो घटः सुघटः -पूर्णकलशः, भुम्भलं - मद्यस्थानम्, सुघटभुम्भले आदी यस्य तत्कृतोपकरणस्य तत् सुघटभुम्भलादि करोतीति शेषः । अयमत्र भावः -- यथा हि कुलालः पृथिव्यास्तादृशं पूर्णकलशादिरूपं करोति यादृशं लोकात् कुसुमचन्दनाक्षतादिभिः पूजां लभते स एव भुम्भलादि तादृशं विदधाति यादृशमप्रक्षिप्तमद्यमपि लोकाद् निन्दां लभते; तथा यदुदयाद् निर्धनः कुरूपो बुद्ध्यादिपरिहीणोऽपि पुरुषः सुकुलजन्ममात्रादेव लोकात् पूजां लभते तद् उच्चगोंत्रम् १; यदुदयात् पुनर्महाघनोऽप्रतिरूपरूपो बुच्यादिसमन्वितोऽपि पुमान् विशिष्टकुला - भावाद् लोकाद् निन्दां प्रामोति तद् नीचैगोत्रम् २ इति । उक्तं द्विविधं गोत्रकर्म ॥
1
अथ विकर्म पञ्चधा व्याख्यानयन्नाह — "विग्धं दाणे लाभे" इत्यादि । विशेषेण हन्यन्तेबद्दानादिब्धयो विनाश्यन्तेऽनेनेति विघ्नम् - अन्तरायकर्म । तच्च विषयभेदात् पञ्चधेति दर्शगति - दीयत इति दानं तस्मिन् लभ्यत इति लाभस्तस्मिन् भुज्यते - सकृदुपभुज्यत इति भोगः पुष्पाहारादिः, उपेति - पुनः पुनर्भुज्यत इति उपभोगो भवेनाऽऽसनाऽङ्गनादि । उक्तं चसह भुज्ज चि मोगो, सो पुण आहारपुप्फमाईसु ।
,
उपभोगो उ पुणो पुण, उवभुज्जइ भवणवणियाई ॥ ( वृ०क०वि० गा० १६५ )
ततो भोगश्च उपभोगश्च भोगोपभोगौ तयोः, प्राकृतवशाच द्विर्वचनस्थाने बहुवचनं भवति, यदाहुः श्रीहेमचन्द्रसूरिपादाः स्वप्राकृतलक्षणे- “द्विवचनस्य बहुवचनम् " ( सि० ८-११३० ) इति । विशेषेण ईर्यते - चेष्यतेऽनेनेति वीर्यम्, यद्वा विविधम्- अनेकप्रकारमीरयति यत् प्राणिनं क्रियासु तद् वीर्यं सामर्थ्य शक्तिरिति पर्यायास्तस्मिन् 'चः' समुच्चये, सर्वत्र बिन -
१ उपकारकारकोऽपि हि न रोचते दुर्भागस्तु यस्योदये ॥ २ वनवसनात ग० ॐ० ॥ ३ सकृदूभुज्यते इति भोगः स पुनराहारपुष्पादिषु । उपभोगस्तु पुनः पुनरुपभुज्यते भवनवनितादि ॥