________________
११-५३]
कर्मhaureater प्रथमः कर्मप्रन्यः ।
५९
मिति योज्यम् । विषयसप्तमी चेयं सर्वत्र । ततो दानादिविषय मेदतो दानादिविषयं पञ्चधा विनं कर्म भवतीति वाक्याक्षरार्थः । भावार्थस्त्वयम् सत्यपि दातव्ये वस्तुनि, आगते च गुणवति पात्रे, जानन्नपि दानफलं यदुदयाद् दातुं नोत्सहते तद् दानान्तरायम् १ | यदुदयाद् विशिष्टेऽपि बातरि, विद्यमानेऽपि देये वस्तुनि याच्ञाकुशलोऽपि याचको न लभते तद् लाभान्तरायम् २ । यदुदयात् सति विभवादौ सम्पद्यमाने चाहारमात्यादौ विरतिहीनोऽपि न भुझे तद् मोगान्तरायम् ३ । यदुदयाद् विद्यमानमपि वस्त्रालङ्कारादि नोपभुङ्क्ते तद् उपभोगान्तरायम् ४ । यदुदयवशाद् बलवान् नीरुजो वयःस्थोऽपि च तृणकुनीकरणेऽप्यसमर्थस्तद् वीर्यान्तरायम् ५ इति ॥ ५१ ॥ एतच भाण्डागारिकसममिति दर्शयन्नाह -
सिरिहरियसमं एयं, जह पडिकूलेण तेण रायाई । न कुणइ दाणाईयं, एवं विग्घेण जीवो वि ॥ ५२ ॥
श्रियो गृहं श्रीगृहं-भाण्डागारं तद् विद्यते यस्य स श्रीगृहिकः -- भाण्डागारिकस्तेन समंतुल्यमेतदन्तरायकर्म । यथा 'तेन' श्रीगृहिकेण 'प्रतिकूलेन' अननुकूलेन 'राजादिः ' राजानृपतिः, आदिशब्दात् श्रेष्ठीश्वरतलवरादिपरिग्रहः 'न करोति' कर्तुं न पारयति दानादि, आदिशब्दाद् लाभभोगोपभोगादिग्रहणम् । 'एवम्' अमुना श्रीगृहिकदृष्टान्तेन 'विमेन' अन्तरायकर्मणा ' जीवोऽपि' जन्तुरपि दानादि कर्तुं न पारयतीति ॥ ५२ ॥
व्याख्यातं पञ्चविधमन्तरायं कर्म, तद्व्याख्याने च समर्थिता " इह नाणदंसणावरण वेय" ( गा०३ ) इत्यादिमूलगाथा । अथ “कीरइ जिएण हेऊहिँ जेण तो भन्नए कम्मं” ( गा० १) इत्यादौ यदुक्तं तयाख्यानार्थं यस्य कर्मणो ये बन्धहेतवस्तान् कचन हेतुद्वारेण काऽपि च हेतुमद्दारेण दिदर्शयिषुराह -
पडिणीयसण निन्हव, उवघाय पओस अंतराएणं ।
अच्चासायणयाए, आवरणदुगं जिओ जयह ॥ ५३ ॥
'आवरणद्विकं' ज्ञानावरणदर्शनावरणरूपं जीवः 'जयति' धातूनामनेकार्थत्वाद् बध्नातीति सम्बन्धः । तत्र ज्ञानस्य–मत्यादेर्ज्ञानिनां - - साध्वादीनां ज्ञानसाधनस्य - पुस्तकादेः 'प्रत्यनीकत्वेन ' तदनिष्टाचरणलक्षणेन 'निह्नवेन' न मया तत्समीपेऽधीतमित्यादिस्वरूपेण 'उपघातेन' मूलतो विनाशस्वरूपेण 'प्रद्वेषेण' आन्तराप्रीतिरूपेण 'अन्तरायेण' भक्तपानवसनोपाश्रयला भनिवारणलक्षणेन 'अत्याशातनया' च जात्याद्युद्धट्टनादिहीलारूपया ज्ञानावरणं कर्म जयतीति सर्वत्र द्रष्टव्यम् । एतच्चोपलक्षणम्, अतो ज्ञान्यवर्णवादेन आचार्योपाध्यायाद्य विनयेनाऽकालखाध्यायकरणेन काले च स्वाध्यायाऽविधानेन प्राणिवधाऽनृतभाषणस्तैन्याऽब्रह्मपरिग्रहरात्रिभोजनाऽविरमणादिभिश्च ज्ञानावरणं जयतीत्याद्यपि वक्तव्यमिति । एवं दर्शनावरणेऽपि वाच्यम्, नवरं दर्शनाभिलापो वक्तव्यः । तथाहि--- दर्शनस्य - चक्षुर्दर्शनादेर्दर्शनिनां साध्वादीनां दर्शनसासाघनस्य --श्रोत्रनयननासिकादेः सम्मत्यनेकान्तजयपताकादिप्रमाणशास्त्र पुस्तकादेर्वा प्रत्यनीत्वेन - तदनिष्टाचरणलक्षणेन, निहवेन-न मया तत्समीपेऽधीतमित्यादिखरूपेण, उपघातेन१ °ऽथ च ख० ग० कु० ॥ २° कत्वनिहवोपघातान्तरायात्याशातनादिभिर्दर्श क० घ० पुस्तकयोरेवं पाठः ॥