________________
देवेन्द्रसूरिविरचितखोपज्ञटीकोतः
[गाथा मूलतो विनाशेन, प्रद्वेषेण-आन्तराप्रीत्यात्मकेन, अन्तरायेण भक्तपानवसनोपायलामनिवराणेन, अत्याशातनया च-जात्यादिहीलया दर्शनावरणं कर्म जयतीति सर्वत्र द्रष्टव्यम् । उपलक्षणमिदम् , अतो दर्शनिनां दूषणग्रहणेन श्रवणकर्तननेत्रोत्पाटननासाछेदजिहाविकर्तनादिना प्राणिवधाऽनृतभाषणस्तैन्याऽब्रह्मपरिग्रहरात्रिभोजनाऽविरमणादिभिश्च दर्शनावरणं जयतीत्याद्यपि वक्तव्यम् । यदवादि श्रीहेमचन्द्रसूरिप्रभुपादैः
ज्ञानदर्शनयोस्तद्वत् , तद्धेतूनां च ये किल । विघ्ननिहवपैशून्याऽऽशातनाघातमत्सराः॥
ते ज्ञानदर्शनावारकर्महेतव आश्रवाः । ( योगशा० टी० पत्र ३०६-२)॥ ५३॥ उक्ता ज्ञानावरणदर्शनावरणबन्धहेतवः । इदानीं वेदनीयस्य द्विविधस्यापि तानाह
गुरुभत्तिखंतिकरुणावयजोगकसायविजयदाणजुओ।
दढधम्माई अन्जइ, सायमसायं विवजयओ ॥५४॥ इह युतशब्दस्य प्रत्येकं योगः, ततो गुरवः-मातापितृधर्माचार्यादयस्तेषां भक्तिः-आसनादिप्रतिपत्तिर्गुरुभक्तिस्तया युतो गुरुभक्तियुतः-गुरुभक्तिसमन्वितो जन्तुः 'सातं' सातवेदनीयम् 'अर्जयति' समुपार्जयतीति सम्बन्धः । 'क्षान्तियुतः' क्षमान्वितः 'करुणायुतः' दयापरीतचेताः 'व्रतयुतः' महावताऽणुव्रतादिसमन्वितः 'योगयुतः' दशविधचक्रवालसामाचार्याद्याचरणप्रगुणः 'कषायविजययुतः' क्रोधादिकषायपरिभवनशील: 'दानयुतः' दानरुचिः 'दृढधर्मः' आपत्स्वपि निश्चलधर्मः, आदिशब्दाद बालवृद्धग्लानादिवैयावृत्त्यकरणशीलो जिनचैत्यपूजापरायणश्च सातम् 'अर्जयति' बध्नाति । यदवाचि
देवपूजागुरूपास्तिपात्रदानदयाक्षमाः। (योगशा० टी० पत्र ३०६-२) सरागसंयमो देशसंयमोऽकामनिर्जरा । शौचं बालतपश्चेति, सद्वेद्यस्य स्युराश्रवाः ।।
(योगशा० टी० पत्र ३०६-२) तथा 'विपर्ययतः' सातबन्धविपर्ययेण असातमर्जयति, तथाहि-गुरूणामवज्ञायकः क्रोधनो निर्दयो व्रतयोगविकल उत्कटकषायः कार्पण्यवान् सद्धर्मकृत्यप्रमत्तः हस्त्यश्वबलीवर्दादिनिर्दयदमनवाहनलाञ्छनादिकरणप्रवणः खपरदुःखशोकवधतापक्रन्दनपरिदेवनादिकारकश्चेति । यदभ्यधायिदुःखशोकवधास्तापक्रन्दने परिदेवनम् । खान्योभयस्थाः स्युरसद्वेद्यस्यामी इहाश्रवाः ॥
(योगशा० टी० पत्र ३०६-२)॥ ५४ ॥ उक्ता वेदनीयस्य बन्धहेतवः । साम्प्रतं मोहनीयस्य द्विविधस्यापि तानाह
उम्मग्गदेसणामग्गनासणादेवदव्वहरणेहिं।
दसणमोहं जिणमुणिचेइयसंघाइपडिणीओ ॥५५॥ उन्मार्गस्य-भवहेतोर्मोक्षहेतुत्वेन देशना-कथनमुन्मार्गदेशना, मार्गस्य-ज्ञानदर्शनचारित्रलक्षणस्य मुक्तिपथस्य नाशना-अपलपनं मार्गनाशना, देवद्रव्यस्य-चैत्यद्रव्यस्य हरणं-भक्षणोपेक्षणप्रज्ञाहीनत्वलक्षणम् , तत उन्मार्गदेशना च मार्गनाशना च देवद्रव्यहरणं च तैहेतुभिर्जीवः
१ देवपूजा गुरूपास्तिः पात्रदानं दया क्षमा । इति योगशाले॥ २ च इति हेतु क० ग० १०॥