________________
५४ - ५६]
कर्मविपाकनामा प्रथमः कर्ममन्थः ।
६१
' दर्शनमोहं' मिध्यात्वमोहनीयमर्जयति । तथा 'जिनमुनिचैत्यसङ्घादिप्रत्यनीकः' तत्र जिना:तीर्थकराः, मुनयः - साधवः, चैत्यानि - प्रतिमारूपाणि, सङ्घः साधुसाध्वीश्रावक श्राविकाल क्षणः, आदिशब्दात् सिद्धगुरुश्रुतादिपरिग्रहः, तेषां प्रत्यनीकः - अवर्णवादाशातनाद्यनिष्टनिर्वको दर्शनमोहमर्जयति । यदभाणि -
वीतरागे श्रुते स धर्मे सर्वसुरेषु च । अवर्णवादिता तीव्र मिथ्यात्वपरिणामिता || सर्वज्ञसिद्धदेवापवो धार्मिकदूषणम् । उन्मार्गदेशनानर्थाग्रहोऽसंयत पूजनम् ॥ असमीक्षितकारित्वं, गुर्वादिष्ववमानना । इत्यादयो दृष्टिमोहस्याश्रवाः परिकीर्तिताः ॥ (योगशा० टी० पत्र ३०७ – १) ॥ ५५ ॥ दुविहं पि चरणमोहं, कसायहासाहविसयविवसमणो । बंध नरयाउ महारंभपरिग्गहरओ रुहो ॥ ५६ ॥ 'द्विविधमपि' द्विभेदमपि 'चरणमोहं' चारित्रमोहनीयं - कषायमोहनीयनोकषायमोहनीयरूपं जीवो बनातीति सम्बन्धः । किंविशिष्टः ? इत्याह- 'कषायहास्यादिविषय विवशमनाः' तत्र कषायाः-क्रोधादय उक्तस्वरूपाः षोडश, हास्यादयः - हास्यरत्यरतिशोकभयजुगुप्सा इति गृह्यन्ते, विषयाः- शब्दरूपरसगन्धस्पर्शाख्याः पञ्च ततः कषायाश्च हास्यादयश्च विषयाश्च कषायहास्यादिविषयास्तैर्विवशं-विसंस्थुलं पराधीनं मनः - मानसं यस्य स कषायहास्यादिविषयविवशमनाः । इदमत्र हृदयम् - - कषायविवशमनाः कषायमोहनीयं बध्नाति, हास्यादिविवशमनास्तु हास्यादिमोहनीयं - हास्य मोहनीयरतिमोहनीयाऽरतिमोहनीयशोकमोहनीयभयमोहनीयजुगुप्सामोहनीयाख्यं नोकषायमोहनीयं बध्नाति, विषयविवशमनाः पुनर्वेदत्रयाख्यं नोकषायमोहनीयं बध्नाति । सामान्यतः सर्वेऽपि कषायहास्यादिविषया द्विविधस्यापि चारित्रमोहनीयस्य बन्धहेतवो भवन्ति । यत्प्रत्यपादि
कषायोदयतस्तीत्रः, परिणामो य आत्मनः । चारित्रमोहनीयस्य स आश्रव उदीरितः ॥ उत्प्रासनं सकन्दर्पोपहासो हासशीलता । बहुप्रलापो दैन्योक्तिहस्यस्यामी स्युराश्रवाः ॥ देशादिदर्शनौत्सुक्यं, चित्रे रमणखेलने । परचित्तावर्जना चेत्याश्रवा: कीर्तिता रतेः ॥ असूया पापशीलत्वं, परेषां रतिनाशनम् । अकुशलप्रोत्साहनं, चारतेराश्रवा अमी ॥ स्वयं भयपरीणामः, परेषामथ भापनम् । त्रासनं निर्दयत्वं च भयं प्रत्याश्रवा अमी ॥ परशोका विष्करणं, स्वशोकोत्पादशोचने । रोदनादिप्रसक्तिश्च, शोकस्यैते स्युराश्रवाः || चतुर्वर्णस्य सङ्घस्य, परिवादजुगुप्सने । सदाचारजुगुप्सा च, जुगुप्सायां स्युराश्रवाः || ईर्ष्या विषादगा च, मृषावादोऽतिवक्रता । परदाररतासक्तिः, स्त्रीवेदस्याश्रवा इमे ॥ स्वदारमात्रसन्तोषोऽनीय मन्दकषायता । अवकाचारशीलत्वं, पुंवेदस्याश्रवा इति ॥ स्त्रीपुंसानङ्गसेवोग्राः, कषायास्तीत्रकामता । पाखण्डिस्त्रीत्रतेभङ्गः, षण्ढवेदाश्रवा अमी ॥ साधूनां गर्हणा धर्मोन्मुखानां विघ्नकारिता । मधुमांसविरतानाम विरत्यभिवर्णनम् ॥ विरताविरतानां चान्तरायकरणं मुहुः । अचारित्रगुणाख्यानं, तथा चारित्रदूषणम् ॥ १ 'वर्जनं योगशास्त्रे ॥ २ तभ्रंशः योगशास्त्रे ॥