________________
देवेन्द्रसूरिविरवितखोपाटीकोषेतः गाया कमायनोकषायाणामन्यस्थानामुदीरणम् । चारित्रमोहनीयस्य, सामान्येनाश्रवा अमी ।।
(योगशा० टी० पत्र ३०७-१) अभिहिता मोहनीयस्य बन्धहेतवः । सम्प्रति चतुर्विधस्याप्यायुषस्तानाह-"बंधइ नरयाउ" इत्यादि । 'बध्नाति' अर्जयति 'नरकायुः' नारकायुष्कं जीवः । किंविशिष्टः इत्याह-'महारम्मपरिग्रहरतः' महारम्भरतो महापरिग्रहरतश्चेत्यर्थः । 'रौद्रः' रौद्रपरिणामो गिरिभेदसमानकषायरौद्रध्यानाऽऽरूषितचेतोवृत्तिरित्यर्थः । उपलक्षणत्वात् पञ्चेन्द्रियवधादिपरिग्रहः । यन्यगादिपञ्चेन्द्रियप्राणिवधो, बहारम्भपरिग्रहौ । निरनुग्रहता मांसभोजनं स्थिरवैरता ॥ रौद्रध्यानं मिथ्यात्वानन्तानुबन्धिकषायता । कृष्णनीलकापोताच, लेश्या अनृतभाषणम् ॥ परद्रव्यापहरणं, मुहुर्मैथुनसेक्नम् । अवशेन्द्रियता चेति, नरकायुष आप्रवाः ।।
(योगशा० टी० पत्र ३०७-१) ॥ ५६ ॥ उक्ता नरकायुषो बन्धहेतवः । इदानी तिर्यगायुषस्तानाह
तिरियाउ गूढहियओ, सढो ससल्लो तहा मणुस्साउं ।
पयईइ तणुकसाओ, दाणरुई मज्झिमगुणो य ॥ ७ ॥ तिर्यगायुर्बध्नाति जीवः, किंविशिष्टः ? इत्याह-'गूढहृदयः' उदायिनृपमारकादिवत् तथा आत्माभिप्रायं सर्वथैव निगृहति यथा नापरः कश्चिद् वेत्ति, 'शठः' वचसा मधुरः परिणामे तु दारुणः, 'सशल्यः' रागादिवशाऽऽचीर्णाऽनेकव्रतनियमाऽतिचारस्फुरदन्तःशल्योऽनालोचिताsप्रतिक्रान्तः, तथाशब्दाद् उन्मार्गदेशनादिपरिग्रहः । उक्तं च----
उन्मार्गदेशना मार्गप्रणाशो गूढचित्तता । आर्तध्यानं सशल्यत्वं, मायारम्भपरिग्रहौ ॥ शीलवते सातिचारो, नीलकापोतलेश्यता । अप्रत्याख्यानकषायास्तिर्यगायुष आश्रवाः ।।
(योगशा० टी० पत्र ३०७-२) उक्तास्तिर्यगायुर्बन्धहेतवः। अथ मनुष्यायुषस्तानाह-"मणुस्साउं" इत्यादि । मनुष्यायुर्जीवो बध्नाति, किंविशिष्टः? इत्याह-'प्रकृत्या' खमावेनैव 'तनुकषायः' रेणुराजिसमानकषायः, 'दानरुचिः' यत्र तत्र वा दानशीलः, मध्यमास्तदुचिताः केचिद् गुणा:-क्षमामार्दवाऽऽर्जवादयो यस्य स मध्यमगुणः, अधमगुणस्य हि नरकायुःसम्भवाद्, उत्तमगुणस्य तु सिद्धेः सुरलोकायुषो वा सम्मवादिति भावः । चशब्दाद् अल्पपरिग्रहाऽल्पारम्भादिपरिग्रहः । आह च
अल्पौ परिग्रहारम्भौ, सहजे मार्दवाऽऽर्जवे । कापोतपीतलेश्यात्वं, धर्मध्यानानुरागिता ।। प्रत्याख्यानकषायत्वं, परिणामश्च मध्यमः । संविभागविधायित्वं, देवतागुरुपूजनम् ॥ पूर्वालापप्रियालापौ, सुखप्रज्ञापनीयता । लोकयात्रासु माध्यस्थ्य, मानुषायुष आश्रवाः ॥
(योगशा० टी० पत्र० ३०७-२) उक्ता मनुष्यायुषो बन्धहेतवः । सम्प्रति देवायुषस्तानाह
अविरयमाइ सुराउं, बालतवोऽकामनिजरो जयह। प्रहाः ख० ग० ०॥ २ °नाः क योगशास्त्रे ॥ ३ °णुस्साउ इ° स्व० ० ० ॥ ४'तबाडकाक० ख०ग०3०॥