________________
कर्मविपाकनामा प्रथमः कर्ममन्यः ।
सरलो अगारविल्लो, सुहनामं अन्नहा असुहं ॥ ५८ ॥ 'अविरत : ' अविरतसम्यग्दृष्टिः 'सुरायुः' देवायुकं 'जयति' बघ्नाति, आदिशब्दाद् देशविस्तसरागसंयतपरिग्रहः । वीतरागसंयतस्त्वतिविशुद्धत्वादायुर्न बध्नाति, घोलनापरिणाम एव तस्य बध्यमानत्वात् । बालं तपो यस्य सः 'बाळतपाः' अनविगतपरमार्थखभावो दुःखगर्भमोहगर्भवैराम्योऽज्ञानपूर्वकनिर्वर्तिततपः प्रभृतिकष्टविशेषो मिथ्यादृष्टिः, सोऽप्यात्मगुणानुरूपं किश्चिदसुरादिकायुर्बधाति । यदाह भगवान् भाष्यकारः -
बोलतवे पडिबद्धा, उक्कडरोसा तवेण गारविया ।
५७-५८]
६३
वेरेण य पडिबद्धा, मरिडं असुरेख उवबाओ || ( वृ० सं० गा० १६० ) अकामस्य - अनिच्छतो निर्जरा - कर्मविचटनलक्षणा यस्यासावकामनिर्जरः । इदमुक्तं भवति – “अकामतण्हाए अकामछुहाए अकामबंभचेरवासेणं अकामसीयायवदं समसग मण्हाणगजल मलकपरिग्गणं दीहरोगचारगनिरोहबंधणयाए गिरितरुसिहरनिवडणयाए जलजलणपवेसअणसणाईहिं” उदकराजिसमान कषायस्तदुचितशुभपरिणामः किञ्चिद् व्यन्तरादिकायुर्बनाति । उपलक्षणत्वात् कल्याणमित्रसम्पर्कमानसो धर्मश्रवणशील इत्यादिपरिग्रहः । यदाहुः
सरागसंयमो देशसंयमोऽकामनिर्जरा । कल्याणमित्रसम्पर्कों, धर्मश्रवणशीलता || पात्रे दानं तपः श्रद्धा, रत्नत्रयाऽविराधना । मृत्युकाले परीणामो, लेबयोः पद्मपीतमोः ॥ बाळतपोऽग्मितोयादिसाघनोल्लम्बनानि च । अव्यक्तसामायिकता, देवस्यायुष आश्रवाः ॥ ( योगशा० टी० पत्र ३०७ -२ ) उक्ता देवायुषो बन्धहेतवः । सम्प्रति नामकर्म यद्यपि द्विचत्वारिंशदादिमेदादनेकधा तथापि शुभाशुभविवक्षया द्विविषमित्यस्य द्विविधस्यापि बन्धहेतू नाह – “सरलो" इत्यादि । 'सरल : ' सर्वत्र मायारहितः, गौरवाणि - ऋद्धिरससातलक्षणानि विद्यन्ते यस्य स गौरववान्, न गौरववान् अगौरववान् “आल्विल्लोल्लालवन्तमन्तेत्तेरमणा मतोः " ( सि० ८ - २ - १५९ ) इति प्राकृतसूत्रेण मतोः स्थान इल्लादेशः । उपलक्षणत्वात् संसारमीरुः - क्षमामार्दवार्ज वादिगुणयुक्तः शुभं - देवगतियशःकीर्तिपञ्चेन्द्रियजात्यादिरूपं नामकर्म बघ्नाति । 'अन्यथा ' उक्तविपरीतस्वभावः, तथाहि--मायावी गौरववान् उत्कटकोधादिपरिणामः 'अशुभ' नरकगत्ययशः कीर्त्यकेन्द्रियादिजातिलक्षणं नामकर्मार्जयतीति । उक्तं च
मनोवाक्कायवक्रत्वं, परेषां विप्रतारणम् । मायाप्रयोगो मिध्यात्वं, पैशून्यं चलचित्तता ॥ सुवर्णादिप्रतिच्छन्दः करणं कूटसाक्षिता । वर्णगन्धरसस्पर्शोन्मथोपपादनानि च ॥ अङ्गोपाङ्गच्यावनानि, यम्रपञ्जरकर्म च । कूटमानतुलाकर्माऽन्यनिन्दात्मप्रशंसनम् ॥ हिंसामृतस्तेयाऽब्रह्ममहारम्भपरिग्रहाः । परुषाऽसभ्यवचनं, शुचिवेषादिना मदः ||
१ बालतपसि प्रतिबद्धा उत्कट रोषास्तपसा गर्विताः । वैरेण च प्रतिबद्धाः ( तेषां ) मृला भसुरेषु उपपातः ॥ २ अकामतृष्णया अकामक्षुधया अकामब्रह्मचर्यवासेन अकामशीतातपदंशमशका स्नानकस्वेदजालमलपङ्कपरिग्रहेण दीर्घरोगचारकनिरोधबन्धनतया गिरितरुशिखरनिपतनतया जलज्वलनप्रवेशानशनादिभिः ॥ ३ श्रन्यथापादनानि च । ग० ॐ० योगशास्त्रे च ॥