________________
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[ गाथा
मौखर्याक्रोशौ सौभाग्योपधाताः कार्मणक्रिया । परकौतूहलोत्पादः, परहास्यबिडम्बने || वेश्यादीनामलङ्कारदानं दावाग्निदीपनम् । देवादिव्याजाद्गन्वादिचौर्य तीव्रकषायता ॥ चैत्यप्रतिश्रयाऽऽरामप्रतिमानां विनाशनम् | अङ्गारादिक्रिया चेत्यशुभस्य नाम्न आश्रवाः ॥ एत एवान्यथारूपास्तथा संसारमीरुता । प्रमादहानं सद्भावार्पणं क्षान्त्यादयोऽपि च ॥ दर्शने धार्मिकाणां च, सम्भ्रमः स्वागतक्रिया । परोपकारसारत्वमाश्रवाः शुभनामनि ॥ (योगशा० टी० पत्र ३०७ - २ ) ।। ५८ ।। उक्त नाम्नो बन्धहेतवः । सम्प्रति गोत्रस्य द्विविधस्यापि तानाहगुणही मयरहिओ, अज्झयणऽज्झावणारुई निचं । पकुण जिणाइभत्तो, उच्च नीयं इयरहा उ ॥ ५९ ॥ 'गुणप्रेक्षी' यस्य यावन्तं गुणं पश्यति तस्य तमेव प्रेक्षते पुरस्करोति, दोषेषु सत्स्वप्युदास्त इत्यर्थः । ‘मदरहितः' विशिष्टजातिलाभकुलैश्वर्यबलरूपतपः श्रुतादिसम्पत्समन्वितोऽपि निरह - कारः, 'नित्यं' सर्वदा 'अध्ययनाध्यापनारुचिः ' स्वयं पठति इतरांश्च पाठयति, अर्थतश्च स्वयममीक्ष्णं विमृशति परेषां च व्याख्यानयति, असत्यां वा पठनादिशक्तौ तीव्रबहुमानः परानध्ययनाध्यापनापरायणान् अनुमोदते, तथा 'जिनादिभक्तः' जिनानां - तीर्थनाथानाम् आदिशब्दात् सिद्धाऽऽचार्योपाध्यायसाधुचैत्यानामन्येषां च गुणगरिष्ठानां भक्त:- बहुमानपरः 'प्रकरोति' प्रकर्षेण समुपार्जयति ‘उच्चम्' उच्चैर्गोत्रम् | 'नीचं' नीचैर्गोत्रम् ' इतरथा तु' भणितविपरीतस्वभावः ।
उक्तं च---
परस्य निन्दावज्ञोपहासाः सद्गुणलोपनम् । सदसद्दोषकथनमात्मनस्तु प्रशंसनम् ॥ सदसद्गुणशंसा च, खदोषाच्छादनं तथा । जात्यादिभिर्मदश्चेति, नीचैर्गोत्राश्रवा अमी ॥ नीचैर्गोत्राश्रवविपर्यासो विगतगर्वता । वाक्कायचितैर्विनयः, उच्चैर्गोत्राश्रवा अमी ॥ (योगशा० टी० पत्र ३०८ - १ ) ॥ ५९ ॥ उक्त गोत्रस्य बन्धहेतवः । साम्प्रतमन्तरायस्य ये बन्धहेतवस्तानभिषित्सुः शास्त्रमिदं समर्थयन्नाह -
$8
जिणपूयाविग्धकरो, हिंसाइपरायणो जयह विग्धं ।
इय कम्मविवागोऽयं, लिहिओ देविंदसूरीहिं ॥ ६० ॥ 'जिनपूजाविघ्नकरः' सावद्यदोषोपेतत्वाद् गृहिणामप्येषा अविधेया इत्यादिदेशनादिभिः समयान्तस्तत्त्वदूरीकृतो जिनपूजानिषेधक इत्यर्थः । हिंसा - जीववध आदिशब्दाद् अनृतभाषणस्तैम्याऽब्रह्मपरिग्रहरात्रिभोजनाऽविरमणादिपरिग्रहस्तेषु परायणः -- तत्परः, उपलक्षणत्वात् मोक्षमार्गस्य ज्ञानदर्शनचारित्रादेस्तद्दोषग्रहणादिना विनं करोति, साधुभ्यो वा भक्तपानोपाश्चयोपकरणभैषजादिकं दीयमानं निवारयति, तेन चैतद् विदधता मोक्षमार्गः सर्वोऽपि विनितो भवति, अपरेषामपि सत्त्वानां दानलाभभोगपरिभोगविनं करोति, मन्त्रादिप्रयोगेण च परस्य वीर्यमपहरति, हठाच्च बधबन्धनिरोधादिभिः परं निश्चेष्टं करोति, छेदन भेदनादिभिश्व परस्येन्द्रियश
१ आश्रवाः शुभनाम्नोऽथ तीर्थकृत्नान भाश्रवाः ॥ इति योगशास्त्रे ॥ २ "ज्ञानचा ख० ० ६० ॥