________________
६०]
कर्मविपाकनामा प्रथमः कर्मग्रन्थः । क्तिमुपहन्ति । स किम् ! इत्याह-'जयति' धातूनामनेकार्थत्वाद् अर्जयति 'विघ्नं' पञ्चप्रकारमप्यन्तरायकर्म । इति' पूर्वोक्तप्रकारेण 'कर्मविपाकः' कर्मविपाकनामकं शास्त्रम् 'अयं' सम्प्रत्येव निगदितखरूपः 'लिखितः' अक्षरविन्यासीकृतः देवेन्द्रसूरिभिः करालकलिकालपातालतलावमज्जद्विशुद्धधर्मधुरोद्धरणधुरीणश्रीमजगचन्द्रमरिचरणसरसीरुहचञ्चरीकैरिति ।। ६० ।।
॥ इति श्रीदेवेन्द्रसूरिविरचिता खोपज्ञकर्मविपाकटीका समाप्ता ॥
[अन्धकारप्रशस्तिः]
विष्णोरिव यस्य विभोः, पदत्रयी व्यानशे जगन्निखिलम् । कर्ममलपटलजलदः, स श्रीवीरो जिनो जयतु ॥ १ ॥ कुन्दोज्ज्वलकीर्तिमरैः, सुरभीकृतसकलविष्टपाभोगः । शतमखशतविनतपदः, श्रीगौतमगणधरः पातु ॥ २ ॥ तदनु सुधर्मखामी, जम्बूप्रभवादयो मुनिवरिष्ठाः ।
श्रुतजलनिधिपारीणा, भूयांसः श्रेयसे सन्तु ॥ ३ ॥ ततः प्राप्ततपाचायेंत्यभिख्या भिक्षुनायकाः । समभूवन् कुले चान्द्रे, श्रीजगच्चन्द्रसूरयः ॥४॥ जगजनितबोधानां, तेषां शुद्धचरित्रिणाम् । विनेयाः समजायन्त, श्रीमद्देवेन्द्रसूरयः ।। ५॥ खान्ययोरुपकाराय, श्रीमद्देवेन्द्रररिणा । टीका कर्मविपाकस्य, सुबोधेयं विनिर्ममे ॥ ६ ॥
विबुधवरधर्मकीर्तिश्रीविद्यानन्दसूरिमुख्यबुधैः । खपरसमयैककुशलैस्तदैव संशोधिता चेयम् ॥ ७ ॥ यद्गदितमल्पमतिना, सिद्धान्तविरुद्धमिह किमपि शास्त्रे । विद्वद्भिस्तत्त्वज्ञः, प्रसादमाधाय तच्छोध्यम् ॥ ८॥ कर्मविपाके विवृति, वितन्वता यन्मयाऽर्जितं सुकृतम् । कर्मविपाकविमुक्तः, समस्तु सर्वोऽपि तेन जनः ॥ ९॥ ग्रन्थाग्रेम्-१८८२ ॥
समाप्तोऽयं सटीकः कर्मविपाकः।
१०भरः ख० उ०॥ २°ग्रम्-१७८२ क० घ०॥
क०९