________________
।। अहम् ॥ पूज्यश्रीदेवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः।
॥ नमः श्रीप्रवचनाय ॥
बन्धोदयोदीरणसत्पदस्थं, निःशेषकर्मारिवलं निहत्य । यः सिद्धिसाम्राज्यमलञ्चकार, श्रिये स वः श्रीजिनवीरनाथः ।। नत्वा गुरुपदकमलं, गुरूपदेशाद्यथाश्रुतं किञ्चित् ।
कर्मस्तवस्य विवृति, विदधे स्वपरोपकाराय ॥ तत्राऽऽदावेव मङ्गलार्थमभीष्टदेवतास्तुतिमाह
तह थुणिमो वीरजिणं, जह गुणठाणेसु सयलकम्माई।
बंधुदओदीरणयासत्तापत्ताणि खवियाणि ॥१॥ 'तथा' तेन प्रकारेण 'स्तुमः' असाधारणसद्भूतसकलकर्मनिर्मूलक्षपणलक्षणगुणोत्कीर्तनेन स्तवनगोचरीकुर्मः, कम् ? 'वीरजिन' तत्र विशेषेण-अपुनर्भावेन ईते-'ईरिक गतिकम्पनयोः' इति वचनाद याति शिवं, कम्पयति-आस्फोटयति अपनयति कर्म वेति वीरः, यदि वा 'शूर वीरणि विक्रान्तौ' वीरयति स्म-कषायोपसर्गपरीपहादिशत्रुगणमभिभवति स्म वीरः, उभयत्र लिहादित्वाद् अच् , यद्वा ईरणमीरः, "भावाकों" (सि० ५--३-१८) इति घञ्, ततश्च विशिष्ट ईरः-गमनं 'सर्वे गत्यर्थी ज्ञानार्थाः' इति वचनाद् ज्ञानं यस्य स वीर इति, अनेन व्युत्पत्तित्रयेण भगवतश्चरमजिनेश्वरस्य स्वार्थसम्पदमाह । अथवा विशिष्टा-सकलभुवनाद्भुता यका स्वर्गापवर्गादिका ई:-लक्ष्मीस्तां राति-भव्येभ्यः प्रयच्छति 'राक् दाने' इति वचनाद् वीरः, "आतो डोऽहावामः” (सि० ५-१-७६) इति डप्रत्ययः, राति च भगवान् सुरासु- . रनरोरगतिर्यसाधारण्या वाण्या निःश्रेयसाभ्युदयसाधनोपायोपदेशेन भव्यानां भुवनाद्भुतां श्रियम् , तथा चोक्तम्
अरहंता भगवंतो, अहियं च हियं च न वि इहं किंचि । वारंति कारवंति य, घेत्तृण जणं बला हत्थे ।। (उप० मा० गा० ४४८) उवएस पुण तं देति जेण चरिएण कितिनिलयाणं ।
देवाण वि हुंति पहू, किमंग पुण मणुयमित्ताणं? ॥ (उप० मा० ४४९) इति । इत्यनया व्युत्पत्त्या च प्रसिद्धसिद्धार्थपार्थिवविपुलकुलविमलनभस्तलनिशीथिनीनाथस्य जिन१ अर्हन्तो भगवन्तोऽहितं च हितं च नापि इह किञ्चित् । वारयन्ति कारयन्ति च गृहीखा जनं बलाद् हस्ते ॥ उपदेशं पुनस्सं ददति येन चरितेन कीर्ति निलयानाम् । देवानामपि भवन्ति प्रभवः किमङ्ग पुनर्मनुजमात्राणाम् ॥