________________
१-२]
कर्मवाद्वितीयः कर्मग्रन्थः ।
६७
नाथस्य परार्थसम्पदमाह । वीरश्वासौ जिनश्च कषायादिप्रत्यर्थिसार्थजयाद् वीरजिनस्तं वीरजिनम् । 'यथा' येन प्रकारेण
अभिनवकम्मग्गहणं, बंधो ओहेण तत्थ वीससयं ।
तित्थयराहारगदुगवज्जं मिच्छम्मि सतरसयं ॥ ( गा० ३ )
इत्यादिवक्ष्यमाणेषु 'गुणस्थानेषु' परमपदप्रासादशिखरारोहणसोपानकल्पेषु व्याख्यास्यमानखरूपेषु मिथ्यादृष्ट्यादिषु सकलानि - समस्तानि मतिज्ञानावरणप्रभृत्युत्तरप्रकृतिकदम्बकसहितानि कर्माणि - ज्ञानावरणीयादिमूलप्रकृतिरूपाण्यष्टौ कर्माणि च स्वोपज्ञकर्मविपाके विस्तरेण व्याख्यातानि । कथम्भूतानि ? " बंधुदओदीरणयासत्तापत्ताणि” त्ति । तत्र मिथ्यात्वादिभिर्बन्धहेतुभिरञ्जनचूर्णपूर्ण समुद्गकवद् निरन्तरं पुद्गलनिचिते लोके कर्मयोग्यवर्गणापुद्गलैरात्मनः क्षीरनीरवद् वह्नययः पिण्डवद्वाऽन्योऽन्यानुगमा मेदात्मकः सम्बन्धो बन्धः १, तेषां च यथाखस्थितिबद्धानां कर्मपुद्गलानामपवर्तनादिकरण विशेषकृते खाभाविके वा स्थित्यपचये सति उदयसमयप्राप्तानां विपाकवेदनमुदयः २, तेषामेव कर्मपुद्गलानामकालप्राप्तानां जीवसामर्थ्यविशेषादू उदयावलिकायां प्रवेशनमुदीरणा ३, तेषामेव कर्मपुद्गलानां बन्धसङ्गमाभ्यां लब्धात्मलाभानां निर्जरणसङ्क्रमणकृतस्वरूप पच्युत्यभावे सद्भावः सत्ता ४, बन्धश्ध उदयश्च उदीरणा च सत्ता च बन्धोदयोदीरणासत्तास्ताः प्राप्तानि - गतानि । सूत्रे च “उदीरणया" इत्यत्र कप्रत्ययः स्वार्थिकः, 'क्षपितानि' निर्मूलोच्छेदेनाभावत्वमापादितानीति ॥ १ ॥
गुणस्थानेषु कर्माणि क्षपितानीत्युक्तम् । ततो गुणस्थानान्येव तावत् खरूपतो निर्दिशति - मिच्छे १ सासण २ मीसे ३,
अविर ४ देसे ५ पमत्त ६ अपमत्ते ७।
नियहि ८ अनियहि ९ सुहमु १०
वसम ११ वीण १२ सजोगि १३ अजोगि १४ गुणा ॥ २ ॥ "गुण" चि गुणस्थानानि ततः "सूचनात् सूत्रम्" इति न्यायात् पदैकदेशेऽपि पदसमुदायोपचाराद् वा इहैवं गुणस्थानक निर्देशो द्रष्टव्यः । तद्यथा - मिथ्यादृष्टिगुणस्थानं ९ साखादनसम्यग्दृष्टिगुणस्थानं २ सम्यग्मिथ्यादृष्टिगुणस्थानम् ३ अविरत सम्यग्दृष्टिगुणस्थानं ४ देशविर - तिगुणस्थानं ५ प्रमत्तसंयतगुणस्थानम् ६ अप्रमत्तसंयतगुणस्थानम् ७ अपूर्वकरण गुणस्थानम् ८ अनिवृत्तिबादरसम्परायगुणस्थानं ९ सूक्ष्मसम्परायगुणस्थानम् १० उपशान्तकषायवीतरागच्छद्मस्थगुणस्थानं ११ क्षीणकषायवीतरागच्छद्मस्थगुणस्थानं १२ सयोगिकेवलिगुणस्थानम् १३ अयोगिकेवलिगुणस्थानम् १४ इति ।
तत्र गुणाः - ज्ञानदर्शनचारित्ररूपा जीवस्वभावविशेषाः, स्थानम् - पुनरत्र तेषां शुद्ध्यविशुप्रकर्षापकर्षकृतः स्वरूपभेदः, तिष्ठन्त्यस्मिन् गुणा इति कृत्वा, गुणानां स्थानं गुणस्थानम्, मिथ्या - विपर्यस्ता दृष्टि:- अर्हत्प्रणीतजीवाजीवादिवस्तुप्रतिपत्तिर्यस्य भक्षितहृत्पूरपुरुषस्य सिते पीत प्रतिपत्तिवत् स मिथ्यादृष्टिः, तस्य गुणस्थानं - ज्ञानादिगुणानामविशुद्धिप्रकर्षविशुद्ध्यपकर्ष - कृतः स्वरूपविशेषो मिथ्यादृष्टिगुणस्थानम् ।