________________
देवेन्द्रसूरिविरचितखोपाटीकोपेतः
[गाथा ननु यदि मिथ्यादृष्टिः ततः कथं तस्य गुणस्थानसम्भवः ? गुणा हि ज्ञानादिरूपाः, तत् कथं ते दृष्टौ विपर्यस्तायां भवेयुः ? इति, उच्यते---इह यद्यपि सर्वथाऽतिप्रबलमिथ्यात्वमोहनीयोदयाद् अर्हत्प्रणीतजीवाजीवादिवस्तुप्रतिपत्तिरूपा दृष्टिरसुमतो विपर्यस्ता भवति तथापि काचिद् मनुष्यपश्वादिपतिपत्तिरविपर्यस्ता, ततो निगोदावस्थायामपि तथाभूताऽव्यक्तस्पर्शमात्रप्रतिपत्तिरविपर्यस्ताऽपि भवति, अन्यथाऽजीवत्वप्रसङ्गात् । यदागमः--
संबजीवाणं पि य णं अक्खरस्स अणंतभागो निन्चुग्याडिओ चिट्ठइ, जइ पुण सो वि आवरिजिज्जा ता णं जीवो अजीवत्तणं पाविज्जा । ( नन्दीपत्र १९५-२) इति ।
तथाहि-समुन्नताऽतिबहलजीमूतपटलेन दिनकररजनिकरकरनिकरतिरस्कारेऽपि नैकान्तेन तत्प्रभानाशः सम्पद्यते, प्रतिप्राणिप्रसिद्धदिनरजनिविभागाऽभावग्रसङ्गात् । उक्तं च
सुटु वि मेहसमुदए, होइ पहा चंदसूराणं । ( नन्दीपत्र ०१९५-२) इति । एवमिहापि प्रबलमिथ्यात्वोदयेऽपि काचिदविपर्यस्ताऽपि दृष्टिर्भवतीति तदपेक्षया मिथ्यादृष्टेरपि । गुणस्थानसम्भवः ।
यद्येवं ततः कथमसौ मिथ्यादृष्टिरेव ? मनुष्यपश्चादिप्रतिपत्त्यपेक्षया अन्ततो निगोदावस्थायामपि तथाभूताऽव्यक्तस्पर्शमात्रप्रतिपत्त्य पेक्षया वा सम्यग्दृष्टित्वादपि, नैष दोषः, यतो भगवदर्हत्प्रणीतं सकलमपि द्वादशाङ्गार्थमभिरोचयमानोऽपि यदि तद्गदितमेकमप्यक्षरं न रोचयति तदानीमप्येष मिथ्यादृष्टिरेवोच्यते, तस्य भगवति सर्वज्ञे प्रत्ययनाशात् । तदुक्तम्-----
पैयमक्खर पि इक्कं, पि जो न रोएड सुत्तनिधिहूँ।
सेसं रोयंतो वि हु, मिच्छट्टिी जमालि व ॥ (बृहत्सं० गा० १६७) इति । किं पुनर्भगवदर्हदभिहितसकलजीवाजीवादिवस्तुतत्त्वप्रतिपत्ति विकलः ? इति १ । ___ आयम्-औपशमिकसम्यक्त्वलाभलक्षणं सादयति-अपनयतीत्यायसादनम् , अनन्तानुबन्धिकषायवेदनम् । अत्र पृषोदरादित्वाद् यशब्दलोपः, कृढ़हुलमिति कर्तर्यनट् , सति ह्यस्मिन् परमानन्दरूपानन्तसुखफलदो निःश्रेयसतरुबीजभूत औपशमिकसम्यक्त्वलाभो जघन्यतः समयमात्रेण उत्कर्पतः षड्भिरावलिकाभिरपगच्छतीति । ततः सह आसादनेन वर्तत इति सासादनः, सम्यग्-अविपर्यस्ता दृष्टिः-जिनप्रणीतवस्तुप्रतिपत्तिर्यस्य स सम्यग्दृष्टिः, सासादनश्चासौ सम्यग्दृष्टिश्च सासादनसम्यग्दृष्टिः, तस्य गुणस्थानं सासादनसम्यग्दृष्टिगुणस्थानम् । साखादनसम्यग्दृष्टिगुणस्थानमिति वा पाठः, तत्र सह सम्यक्त्वलक्षणरसास्वादनेन वर्तत इति साखादनः । यथा हि भुक्तक्षीरान्नविषयव्यलीकचित्तः पुरुषस्तद्वमनकाले क्षीरान्नरसमाखादयति, तथैषोऽपि मिथ्यात्वाभिमुखतया सम्यक्त्वस्योपरि व्यलीकचित्तः सम्यक्त्वमुद्वमंस्तद्रसमाखादयति । ततः स चासौ सम्यग्दृष्टिश्च तस्य गुणस्थानं साखादनसम्यग्दृष्टिगुणस्थानम् । एतश्चैवं भवति-इह गम्मीरापारसंसारसागरमध्यमध्यासीनो जन्तुर्मिथ्यात्वप्रत्ययमनन्तान् पुद्गलपरावर्ताननन्तदुःख
१ सर्वजीवानामपि च अक्षरस्यानन्तभागो नित्योद्घोटितस्तिष्ठति, यदि पुनः सोऽपि आश्रियेत ततो जीवो. ऽजीवत्वं प्राप्नुयात् ॥ २ सुष्वपि मेघसमुदये भवति प्रभा चन्द्रसूर्ययोः ॥ ३ पदमक्षरमप्येकमपि यो न: । रोचयति सूत्रनिर्दिष्टम् । शेषं रोचयमानोऽपि हि मिथ्याष्टिजमालिरिव।