________________
२]
कर्मaaroat द्वितीयः कर्मग्रन्थः ।
६९
लक्षाण्यनुभूय कथमपि तथाभव्यत्वपरिपाकवशतो गिरिसरिदुपलघोलनाकल्पेनाऽनामो गनिर्वर्तितयथाप्रवृत्तकरणेन “करणं परिणामोऽत्र" इति वचनाद् अध्यवसायविशेषरूपेणाऽऽयुर्वजनि ज्ञानावरणीयादिकर्माणि सर्वाण्यपि पल्योपमासत्येयभागन्यूनैकसागरोपम कोटाकोटीस्थितिकानि करोति । अत्र चान्तरे जीवस्य कर्मजनितो घनरागद्वेषपरिणामः कर्कशनिबिडचिरप्ररूढगुपिलग्रन्थिवद् दुर्भेदोऽभिन्नपूर्वो ग्रन्थिर्भवति । तदुक्तम् —
ती वि थोवमित्ते, खविए इत्थंतरम्मि जीवस्स । हव हु अभिन्नपुत्रो, गंठी एवं जिणा बिंति ॥
( धर्मसं० गा० ७५२, श्राव० प्र० गा० ३२ )
गठित सुदुभेओ, कक्खडघणरूढ गूढगंठि छ । जीवस्स कम्मजणिओ, घणरागद्दोसपरिणामो ॥ ( विशेषा० गा० १९९५ ) इति । इमं च ग्रन्थि यावदभव्या अपि यथाप्रवृत्तिकरणेन कर्म क्षपयित्वाऽनन्तशः समागच्छन्ति । उक्तं चाssवश्यक टीकायाम् -
अभव्यस्यापि कस्यचिद् यथाप्रवृत्तिकरणतो ग्रन्थिमासाद्याऽर्हदादिविभूतिदर्शनतः प्रयोजनान्तरतो वा प्रवर्तमानस्य श्रुतसामायिकलाभो भवति न शेषलाभ इति ।
एतदनन्तरं कश्चिदेव महात्माऽऽसन्नपरमनिवृतिः समुल्लसितमचुरदुर्निवारवीर्यप्रसरो निशित कुठारधारयेव परम विशुद्ध्या यथोक्तस्वरूपस्य प्रथेर्भेदं विषाय मिथ्यात्वस्थितेरन्तर्मुहूर्तमुदयक्षणाद् उपर्यतिक्रम्याऽपूर्वकरणाऽनिवृत्तिकरणलक्षणविशुद्धिजनितसामध्योद् कर्मुहूर्तकाप्रमाणं तत्प्रदेश वेद्यदलिकाभावरूपमन्तरकरणं करोति । अत्र यथाप्रवृत्तिकरणाऽपूर्वकरणाs निवृत्तिकरणानामयं क्रमः -
जो गंठी ता पढमं गठि समइच्छओ भवे बीयं ।
अनिट्टीकरणं पुण, सम्मतपुरक्खडे जीवे ॥ ( विशे० आ० गा० १२०३ ) "गंटिं समइच्छओ" त्ति ग्रन्थि समतिक्रामतः- भिन्दानस्येति, “सम्मत्तपुरक्खड " त्ति सम्यक्त्वं पुरस्कृतं येन तस्मिन् आसन्नसम्यक्त्वे जीवेऽनिवृत्तिकरणं भवतीत्यर्थः ।
एतस्मिंश्चान्तरकरणे कृते सति तस्य मिथ्यात्वकर्मणः स्थितिद्वयं भवति । अन्तरकरणादधस्तनी प्रथमा स्थितिरन्तर्मुहूर्त प्रमाणा, तस्मादेवान्तरकरणाद् उपरितनी शेषा द्वितीया । स्थापना । तत्र प्रथमस्थितौ मिथ्यात्वदलिक वेदनादसौ मिध्यादृष्टिरेव अन्तर्मुहूर्तेन पुनस्तस्यामपगतायामन्तरकरणप्रथमसमय एवोपशमिकसम्यक्त्वमाप्नोति, मिथ्यात्वदलिक वेदनाऽभावात् । यथा हि वनदावानलः पूर्वदग्धेन्धनमूषरं वा देशमवाप्य विध्यायति, तथा मिथ्यात्ववेदनवनदवोऽप्यन्तरकरणमवाप्य विध्यायति । तथा च सति तस्योपशमिकसम्यक्त्वलाभः । उक्तं च
१ तस्या अपि स्तोकमात्रे क्षपित अत्रान्तरे जीवस्य । भवति हि अभिन्नपूर्वो ग्रन्थिरेवं जिना ब्रुवन्ति ॥ ग्रन्थिरिति सुदुर्भेदः कर्कशघनरूढ गूढप्रन्थिरिव । जीवस्य कर्मजनितो घनरागद्वेषपरिणामः ॥ २ त क० ग० ॥ ३ यावद् प्रन्थिः तावत् प्रथमं प्रन्थि समतिकामतो भवेद्वितीयम् । अनिवृत्तिकरणं पुनः सम्यपुरस्कृते जीवे ॥ ४ अपुव्वं तु विशेषावश्यकभाष्ये ।