SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ७. देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा ऊसरदेस दविलयं च विज्झाइ वणदवो पप्प । इय मिच्छम्स अणुदए, उवसमसम्म लहइ जीवो ॥ (विशेषा० गा० २७३४) तस्यां चान्तमौहूर्तिक्यामुपशान्ताद्धायां परमनिधिलाभकल्पायां जघन्यतः समयशेषायामुत्कृष्टतः षडावलिकाशेषायां सत्यां कस्यचिन्महाबिभीषिकोत्थानकल्पोऽनन्तानुबन्ध्युदयो भवति, तदुदये चासौ सास्वादनसम्यग्दृष्टिगुणस्थाने वर्तते, उपशमश्रेणिप्रतिपतितो वा कश्चित् सासादनत्वं याति, तदुत्तरकालं चावश्यं मिथ्यात्वोदयादसौ मिथ्यादृष्टिर्भवतीति २ । तथा सम्यक् च मिथ्या च दृष्टिर्यस्यासौ सम्यग्मिथ्यादृष्टिः, तस्य गुणस्थानं सम्यग्मिथ्यादृष्टिगुणस्थानम् । इहानन्तराभिहितविधिना लब्धेनौपशमिकसम्यक्त्वेन औषधविशेषकल्पेन मदनकोद्रवस्थानीयं मिथ्यात्वमोहनीयं कर्म शोधयित्वा त्रिधा करोति । तद्यथा---शुद्धमर्धविशुद्धमविशुद्धं चेति । स्थापना AA। तत्र त्रयाणां पुञ्जानां मध्ये यदाऽर्धविशुद्धः पुञ्ज उदेति तदा तदुदयाद् जीवस्यार्धविशुद्धं जिनप्रणीततत्त्वश्रद्धानं भवति, तेन तदाऽसौ सम्यग्मिथ्यादृष्टिगुणस्थानमन्तर्मुहूर्त कालं स्पृशति, तत ऊर्ध्वमवश्यं सम्यक्त्वं मिथ्यात्वं वा गच्छतीति ३ । तथा विरतिर्विरतं क्लीबे क्तप्रत्ययः, तत्पुनः सावद्ययोगप्रत्याख्यानं तद् न जानाति नाभ्युपगच्छति न तत्पालनाय यतत इति त्रयाणां पदानामष्टौ भङ्गाः । स्थापना - न ना न तत्र प्रथमेषु चतुर्यु भङ्गेषु मिथ्यापिरजानत्वात् , शेषेषु सम्यग्दृष्टिानित्वात् , न ना पा सप्तसु भङ्गेषु नास्य विस्तमस्तीत्यविरतः, “अनादिभ्यः" (सि०७-२-४६) न 5 न इति अप्रत्ययः, चरमभङ्गे तु विरतिरस्तीति । यद्वा विरमति स्म-सावद्ययोगेभ्यो नई निवर्तते स्मेति विरतः, “गत्यर्थाऽकर्मकपिबभुजेः” (सि०५-१-११) इति क-जाना पा तरि क्तप्रत्यये विरतः, न विरतोऽविरतः, स चासौ सम्यग्दृष्टिश्चाविरतसम्य- जा ऽ न ग्दृष्टिः । इदमुक्तं भवति-यः पूर्ववर्णितोपशमिकसम्यग्दृष्टिः शुद्धदर्शनमोहपुञ्जो- जापा दयवर्ती क्षायोपशमिकसम्यग्दृष्टि क्षीणदर्शनसप्तकः क्षायिकसम्यग्दृष्टिा परममुनिप्रणीतां सावद्ययोगविरति सिद्धिसौधाध्यारोहणनिःश्रेणिकल्पां जानन् अप्रत्याख्यानकषायोदयविनितत्वात् नाभ्युपगच्छति, न च तत्पालनाय यतत इत्यसावविरतसम्यग्दृष्टिरुच्यते, तस्य गुणस्थानमविरतसम्यग्दृष्टिगुणस्थानम् । उक्तं च 'बंध अविरहहेउं, जाणतो रागदोसदुक्खं च । विरइसुहं इच्छंतो, विरई काउं च असमत्थो । एस असंजयसम्मो, निंदतो पावकम्मकरणं च । अहिगयजीवाजीवो, अचलियदिट्टी चैलियमोहो । तथा सर्वसावद्ययोगस्य देशे-एकव्रतविषये स्थूलसावद्ययोगादौ सर्वत्रतविषयानुमतिवर्ज. १ ऊपरदेशं दग्धं च विध्यायति वनदवः प्राप्य । इति मिथ्यावस्यानुदये उपशमसम्यक्त्वं लभते जीवः । २ बन्धमविरतिहेतुं जानानो रागद्वेषदुःखं च । विरतिसुखमिच्छन् विरतिं कर्तुं चासमर्थः ॥ एषोऽसंयतसम्बदृष्टिः निन्दन पापकर्मकरणं च । अधिगतजीवाजीवोऽचलितदृष्टिश्चलितमोहः॥ ३ छलियमोहो क० ख० घ०॥ ४ अयस्थूल°क० घ०॥ ४॥
SR No.010087
Book TitleChatvara Karmgranth
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherAtmanand Jain Sabha
Publication Year1934
Total Pages289
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy