________________
२]
कर्मस्वरूयो द्वितीयः कर्मग्रन्थः ।
७१
सावद्ययोगान्ते विरतं विरतिर्यस्यासौ देशविरतः । सर्वसावद्यविरतिः पुनरस्य नास्ति, प्रत्याख्यानावरणकषायोदयात्, सर्वविरतिरूपं प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणाः । उक्तं चसंम्म सणसहिओ, गिव्हंतो विरइमप्पसत्तीए । rasutraरमो अणुमइमित्त त्ति देसजई ||
देशविरतस्य गुणस्थानं देशविरत गुणस्थानम् ५ ।
तथा संयच्छति स्म-सम्यग् उपरमति स्म संयतः, “ गत्यर्थकर्म ०" (५-१-११ ) इति क्तः, प्रमाद्यति स्म-संयमयोगेषु सीदति स्म, प्राग्वत् कर्तरि क्तः प्रमत्तः, यद्वा प्रमदनं प्रमत्तंप्रमादः, स च मदिराविषयकपाय निद्राविकथानामन्यतमः सर्वे वा । प्रमत्तमस्यास्तीति प्रमत्तःप्रमादवान् "अम्रादिभ्यः " ( सि० ७-२-४६ ) इति अप्रत्ययः, प्रमत्तश्चासौ संयतश्च प्रमत्तसंयतः, तस्य गुणस्थानं प्रमत्तसंयतगुणस्थानम्, विशुद्ध्यविशुद्धिप्रकर्षापकर्षकृतः स्वरूपभेदः । तथाहि —— देश विरतिगुणापेक्षया एतद्गुणानां विशुद्धिप्रकर्षोऽविशुद्ध्यपकर्षश्च, अप्रमत्तसंयतापेक्षया तु विपर्ययः । एवमन्येष्वपि गुणस्थानेषु पूर्वोत्तरापेक्षया विशुद्ध्यविशुद्धिप्रकर्षाऽपकर्पयोजना द्रष्टव्या ६ ।
न प्रमत्तोऽप्रमत्तः । यद्वा नास्ति प्रमत्तमस्यासावप्रमत्तः, स चासौ संयतश्च तस्य गुणस्थानम् अप्रमत्तसंयत गुणस्थानम् ७ ।
अपूर्वम्-अभिनवं प्रथममित्यर्थः करणं-स्थितिघातरसघातगुणश्रेणिगुणसङ्क्रमस्थितिबन्धानां पञ्चानामर्थानां निर्वर्तनं यस्यासावपूर्वकरणः । तथाहि-- बृहत्प्रमाणाया ज्ञानावरणीयादिकर्म - स्थितेरपवर्तन करणेन खण्डनम् - अल्पीकरणं स्थितिघात उच्यते । रसस्यापि प्रचुरीभूतस्य सतोऽपवर्तनाकरणेन खण्डनम् - अल्पीकरणं रसघात उच्यते । एतौ द्वावपि पूर्वगुणस्थानेषु विशुद्धेरल्पत्वादल्पावेव कृतवान्, अत्र पुनर्विशुद्धेः प्रकृष्टत्वाद् बृहत्प्रमाणतया अपूर्वाविमौ करोति । तथा उपरितनस्थितेर्विशुद्धिवशादपवर्तन करणेनाऽवतारितस्य दलिकस्यान्तर्मुहूर्तप्रमाणमुदयक्षणादुपरि क्षिपतरक्षपणाय प्रतिक्षणमसयेयगुणवृद्ध्या विरचनं गुणश्रेणिः । स्थापना
। एतां च पूर्वगुणस्थानेष्वविशुद्धत्वात् कालतो द्राघीयसीं दलिकरचनामाश्रित्याऽप्रश्रीर्यसीमल्पदलिकस्यापवर्तनाद् विरचितवान् इह तु तामेव विशुद्धत्वादपूर्वं कालतो ह्रस्वतरां दलिकरचनामाश्रित्य पुनः पृथुतरां बहुतरदलिकस्यापवर्तनाद् विरचयतीति । तथा बध्यमानशुभप्रकृतिष्वबध्यमानाशुभप्रकृतिदलिकस्य प्रतिक्षणमसत्येयगुणवृद्ध्या विशुद्धिवशाद् नयनं गुणसङ्क्रमः, तमप्यसाविहापूर्वं करोति । तथा स्थितिं कर्मणामशुद्धत्वात् प्राग् द्राघीयसीं बद्धवान्, te तु तामपूर्वी विशुद्धत्वादेव हसीयसीं बनातीति [ स्थितिबन्धः ] ।
अयं चापूर्वकरणो द्विधा -- क्षपक उपशमकश्च क्षपणोपशमनार्हत्वात् चैवमुच्यते, राज्यार्ह - कुमारराजवत्, न पुनरसौ क्षपयत्युपशमयति वा, तस्य गुणस्थानम् अपूर्वकरणगुणस्थानम् । एतच्च गुणस्थानं प्रपन्नानां कालत्रयवर्तिनो नानाजीवानपेक्ष्य सामान्यतोऽसङ्ख्य लोकाकाश१ सम्यग्दर्शनसहितः गृह्णन् विरतिमात्मशक्त्या । एकत्रतादिचरिमः अनुमतिमात्रं इति देशयतिः ॥ २ °यसी दलिकस्यापस्याप' ख० ॥