SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ४०] कर्मविपाकनामा प्रथमः कर्मग्रन्थः । यदुदयाद् जीवशरीरं निम्बादिवत् तिकं भवति तत् तिक्तनाम १ । गलामयादिप्रशमनो मरिचनागराद्याश्रितः कटुः । यदवादि कटुर्गलामयं शोफं, हन्ति युक्त योपसेवितः । दीपनः पाचको रुच्यो, बृंहणोऽतिकफापहः ॥ यदुदयाद् जन्तुशरीरं मरिचादिवत् कटु भवति तत् कटुनाम २ । रक्तदोषाद्यपहर्ता बिमतकाऽऽमलककपित्थाद्याश्रितः कषायः । यदभाणि - रक्तदोषं कफं पित्तं, कषायो हन्ति सेवितः । रूक्षः शीतो गुरुग्राही, रोषणश्च स्वरूपतः ॥ ५१ यदुदयाद् जन्तुशरीरं बिभीतकादिवत् कषायं भवति तत् कषायनाम ३ । अभिदीपनादिहृद् अम्लीकाद्याश्रितोऽम्लः । यदभ्यधायि - अम्लोsमिदीप्तिकृत् स्निग्धः, शोफपित्तकफापहः । क्लेदनः पाचनो रुच्यो, मूढवातानुलोमकः ॥ यदुदयाद् जीवशरीरमम्लीकादिवद् अम्लं भवति तद् अम्लनाम ४ । पित्तादिप्रशमकः खण्डशर्कराद्याश्रितो मधुरः । यदवाचि - पित्तं वातं कर्फ हन्ति, धातुवृद्धिकरो गुरुः । जीवनः केशकृद् बालवृद्धक्षीणौजसां हितः ॥ यदुदयाद् जन्तुशरीरमिक्ष्यादिवद् मधुरं भवति तद् मधुरनाम ५ । स्थानान्तरे स्तम्भिता - हारविध्वंसादिकर्ता सिन्धुलवणाद्याश्रितो लवणोऽपि रसः पठ्यते, स चेह नोपात्तः, मधुरादिसंसर्गजत्वात् तदभेदेन विवक्षणात् । सम्भाव्यते च तत्र माधुर्यादिसंसर्गः, सर्वरसानां लवणप्रक्षेप एव स्वादुत्वोपपतेरिति । अभिहितं पञ्चधा रसनाम || अधुना स्पर्शनाम अष्टधा प्राह-स्पृश्यन्त इति स्पर्शाः 'अष्टौ' अष्टसङ्ख्याका भवन्ति । तथाहि —गुरु १ लघु २ मृदु ३ खर ४ शीत ५ उष्ण ६ स्निग्ध ७ रूक्षाः ८ इति । तत्राघोगमनहेतुरयोगोलकादिगतो गुरुः १ । प्रायस्तिर्यगूर्ध्वगमन हेतुरर्कतूलादिनिश्रितो लघुः २ । सन्नति कारणं तिनिसलतादिगतो मृदुः ३ । स्तब्धतादिकारणं दृषदादिगतः खरः ४ । देहस्तम्भादिहेतुः प्रालेयाद्याश्रितः शीतः ५ । आहारपाकादिकारणं ज्वलनाद्यनुगत उष्णः ६ । पुद्गलद्रव्याणां मिभः संयुज्यमानानां बन्धनिबन्धनं तैलादिस्थितः स्निग्धः ७ । पुद्गलद्रव्याणां मिथोऽसंयुज्यमानानामबन्धनिबन्धनं भस्माद्याधारो रूक्षः ८ । एतत्संसर्गजास्तु नोक्ताः, एष्वेवान्तर्भा - वादिति । ततो यदुदयाद् जन्तुशरीरं गुरु भवति वज्रादिवद् तद् गुरुस्पर्शनाम १ | यदुदयाद् जन्तुशरीरमर्कतूलादिवद् लघु भवति तद् लघुस्पर्शनाम २ । यदुदयाद् जन्तुशरीरं हंसरूतादिवद् मृदु भवति तद् मृदुस्पर्शनाम ३ । यदुदयाद् जन्तुशरीरं खरं - कर्कशं पाषाणादिवद् भवति त् खरस्पर्शनाम 8 । यदुदयाद् जन्तुशरीरं शीतं - शीतलं मृणालादिवद् भवति तत् शीतस्पर्शनाम ५ । यदुदयाद् जन्तुशरीरं हुतभुजादिवद् उष्णं भवति तद् उष्णस्पर्शनाम ६ । यदुदयाद् जन्तुशरीरं घृतादिवत् स्निग्धं भवति तत् स्निग्धस्पर्शनाम ७ । यदुदयाद् जन्तुशरीरं
SR No.010087
Book TitleChatvara Karmgranth
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherAtmanand Jain Sabha
Publication Year1934
Total Pages289
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy