________________
देवेन्द्रसूरिविरचितखोपनटीकोपेतः
[गाथ तोच्छ्यः सर्वसंस्थानप्रधानः पञ्चेन्द्रियजीवशरीराकारविशेषः समचतुरस्रसंस्थाननिबन्धनं नाम समचतुरस्रनाम १ । न्यग्रोधवत् परिमण्डलं यस्य तद् न्यग्रोधपरिमण्डलम्, यथा न्यग्रोधःवटवृक्ष उपरि सम्पूर्णावयवोऽधस्तु हीनस्तथा यत् संस्थानं नामरुपरि सम्पूर्णावयवम् अधस्तु न तथा तद् न्यग्रोधपरिमण्डलम् , तन्निबन्धनं नाम न्यग्रोधपरिमण्डलनाम २। सह आदिनानाभेरघस्तनमागरूपेण यथोक्तप्रमाणयुक्तेन वर्तत इति सादि । सर्वमपि हि शरीरं सादि, ततः सादित्वविशेषणान्यथानुपपत्तेरादिरिह विशिष्टो ज्ञातव्यः । ततो यत्र नामेरधो यथोक्तममाणयुक्तमुपरि च हीनं तत् सादि संस्थानम् , तन्निबन्धनं नाम सादिनाम ३ । यत्र पाणिपादशिरोग्रीवं यथोक्तप्रमाणोपपन्नम् उरउदरादि च मडभं तत् कुन्नसंस्थानम् , तन्निबन्धनं नाम कुन्जनाम ४ । यत्र पुनरुरउदरादि यथोक्तप्रमाणोपेतं हस्तपादादिकं च हीनं तद् वामनसंस्थानम् , तन्निबन्धनं नाम वामननाम ५। अन्ये तु कुलवामनयोर्विपरीतं लक्षणमाहुः । यत्र सर्वेऽप्यवयवाः शास्त्रोक्तप्रमाणहीनास्तत् सर्वत्रासंस्थितं हुण्डसंस्थानम् , तन्निबन्धनं नाम हुण्डनाम ६ । ततो यदुदयाद् जन्तुशरीरं समचतुरस्रसंस्थानं भवति तत्कर्मापि समचतुरस्रसंस्थाननामेति । एवं न्यग्रोधपरिमण्डलादिप्वपि योज्यम् । उक्तं षोढा संस्थाननाम ।
इदानीं पञ्चधा वर्णनामाऽऽह-वर्णाः पञ्च भवन्ति कृष्ण१नीललोहित३हरिद्रसिताः ५। तत्र यदुदयाद जन्तुशरीरं कृष्णं भवति राजपट्टादिवत् तत्कर्मापि कृष्णनाम १ । यदुदयादजन्तुशरीरं मरकतादिवद् नीलं भवति तद् नीलनाम २ । यदुदयाद् जन्तुशरीरं लोहितं-रक्तं हिमुलादिवद् भवति तद् लोहितनाम ३ । यदुदयाद् जन्तुशरीरं-हारिद्र-पीतं हरिद्रावद् भवति तद् हारिद्रनाम ४ । यदुदयाद् जन्तुशरीरं सितं-श्वेतं शङ्खादिवद् भवति तत् सितनाम ५। कपिशादयस्त्वेतत्संयोगेनैवोत्पद्यन्ते, न पुनः सर्वथैतद्विलक्षणा इति न दर्शिताः ॥ ३९॥ उक्तं वर्णनाम पञ्चधा । अथ गन्धनाम द्विधाऽऽह---
सुरहिदुरही रसा पण, तित्तकडुकसायअंबिला महुरा।
फासा गुरुलघुमिउखरसीउण्हसिणिद्धरुकावऽट ॥ ४०॥ इह गन्धशब्दः प्रक्रमाद् गम्यते, ततः सुरभिगन्धो दुरभिगन्धश्च द्वेधा गन्धः । तत्र सौमुख्यकृत् सुरभिगन्धः, यदुदयाद जन्तुशरीरं कर्पूरादिवत् सुरभिगन्धं भवति तत् सुरभिगन्धनाम १ । वैमुख्यकृत् दुरभिगन्धः, यदुदयाद् जन्तुशरीरं लशुनादिवद् दुरभिगन्धं भवति तद् दुरभिगन्धनाम २ । अत्राप्युभयसंयोगजाः पृथग नोक्ताः, एतत्संसर्गजत्वादेव भेदाविवक्षणात् । उक्तं द्विधा गन्धनाम ॥
अथ पञ्चधा रसमामाऽऽह-रसाः पूर्वोक्तशब्दार्थाः पञ्च भवन्ति । तथाहि-तिक्तकटुकपायाऽम्लाश्चत्वारो मधुरश्च पञ्चमः । तत्र श्लेष्मादिदोषहन्ता निम्बाद्याश्रितस्तिको रसः । तथा च भिषक्शास्त्रम्
श्लेष्माणमरुचिं पित्तं, तृषं कुष्ठं विषं ज्वरम् ।
हन्यात् तिक्तो रसो बुद्धेः, कर्ता मात्रोपसेवितः ॥ इति । १ हुण्डं सं० ख० ग०॥ २ जुलकादि ख० गऊ० ॥