________________
३०-३९ ]
कर्मfaureater प्रथमः कर्मग्रन्थः ।
४६
हम्म्ते - डढी क्रियन्ते शरीरपुद्गला येन तत् संहननम्, तच्च 'अस्थिनिचयः' कीलिकादिरूषाणामस्थां निचयः-रचनाविशेषोऽस्थिनिचयः । तत् संहननं 'षड्धा' षट्कारैर्भवति । सद्यथा - वज्रऋषभनाराचं १ तथा ऋषभनाराचम् २ इहानुखारोऽलाक्षणिकः, नाराचम् ३ · अर्धनाराचं ४ कीलिका ५ सेवार्तम् ६ । 'इह' प्रवचने 'ऋषभः' ऋषभशब्देन परिवेष्टनपट्ट 'उच्यते, 'वज्र' वज्रशब्देन कीलिकाऽभिधीयते, 'नाराचं' नाराचशब्देनोभयतो मर्कटबन्धी अण्यते । 'इदम्' अस्थिनिचयात्मकं संहननम् 'औदारिकाङ्गे' औदारिकशरीर एव, नान्येषु शरीरेषु तेषामस्थिरहितत्वात् । इति गाथायुगलाक्षरार्थः । भावार्थः पुनरयम् — इह द्वयोरस्मोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेन अस्भा परिवेष्टितयोरुपरि तदस्थित्रयमेदि ratorror वज्रनामकमस्थि यत्र भवति तद् वज्रऋषभनाराचम्, तन्निबन्धनं नाम वज्रषभनाराचनाम १ । यत् पुनः कीलिकारहितं संहननं तद् ऋषभनाराचम्, तन्निबन्धनं नाम ऋषभनाराचनाम २ । यत्र पुनर्मर्कटबन्धः केवलो भवति न पुनः कीलिका ऋषमसंज्ञः पट्टश्च तद् नाराचम्, तन्निबन्धनं नाम नाराचनाम ३ । यत्र त्वेकपोर्धेन मर्कटबन्धो द्वितीयपार्श्वेन च कीलिका भवति तद् अर्धनाराचम्, तन्निबन्धनं नामाऽर्धनाराचनाम ४ । यंत्र पुनरस्थीनि कीलिकामात्रबद्धान्येव भवन्ति तत् कीलिकासंहननम्, तन्निबन्धनं नाम कीलिकानाम ५ । यत्र तु परस्परं पर्यन्तस्पर्शलक्षणां सेवामागतान्यस्थीनि भवन्ति स्नेहाभ्यवहारतैलाभ्यङ्गविश्रामणादिरूपां च परिशीलनां नित्यमपेक्षन्ते तत् सेवार्तम्, तन्निबन्धनं नाम सेवार्तनाम ६ । यद्वा "छेवट्टे" ति दकारस्य लुप्तस्येह दर्शनात् छेदानाम् - अस्थिपर्यन्तानां वृतं - परस्परसम्बन्घघटनालक्षणं वर्तनं वृत्तिर्यत्र तत् छेदवृत्तम्, कीलिकापट्टमर्कटबन्धरहितमस्थिपर्यन्तमात्रसंस्पर्श षष्ठमित्यर्थः । ततो यदुदयात् शरीरे वज्रऋषभनाराचसंहननं भवति तद् वज्रऋषभनाराचसंहनननामकर्मेति । एवमृषभनाराचादिष्वपि वाच्यमिति ॥ ३७ ॥ ३८ ॥
व्याख्यानं षड्विधं संहनननाम । सम्प्रति षोढा संस्थाननाम विवक्षुराह --- समचउरंसं निग्गोहसाइखुजाइँ बामणं हुई । संठाणा वन्ना किण्हनीललोहियह लिहसिया ॥ ३९ ॥
समचतुरस्रम् १ “निग्गोह” त्ति पदैकदेशेऽपि पदप्रयोगदर्शनात् न्यग्रोधपरिमण्डलम् २ सौदि ३ कुब्जम् ४ वामनम् ५ हुण्डम् ६ इति षट् 'संस्थानानि' अवयव रचनात्मकशरीराकृतिस्वरूपाणि शरीरे भवन्तीति शेषः । तत्र समाः - शास्त्रोक्तलक्षणाऽविसंवादिन्यश्चतस्रोऽलय:पर्यङ्कासनोपविष्टस्य जानुनोरन्तरम्, आसनस्य ललाटोपरिभागस्य चान्तरम्, दक्षिण कन्स्य वामजानुनश्चान्तरम्, वामस्कन्धस्य दक्षिणजानुनश्चान्तरमिति चतुर्दिग्विभागोपलक्षिताः शरीरावयवा यत्र तत् समचतुरस्रम्, “सुप्रातसुश्वसुदिवशारिकुक्ष चतुरसैणीपदाऽजपदप्रोष्ठपदभद्रपदम्” (सि० ७-३-१२९) इति सूत्रेण समासान्तोऽप्रत्ययः, समचतुरस्रं च तत् संस्थानं च समचतुरस्रसंस्थानम् । तुल्यारोहपरिणाहः सम्पूर्णलक्षणोपेताङ्गोपाङ्गावयवः खाङ्गुकाष्टाचिकश
१ का भ० ख० ० ० ॥ २ पार्श्वे म° क० ० । एवमप्रेऽपि ॥ ३ सादि ३ वामनम् ४ कुग्जम् ५ हु० ख० ग० ॐ० ॥
क्र० ७