________________
देवेन्द्रसूरिविरचितरकोपज्ञटीकोपेतः
[ गाया
कार्मणनिबन्धनं नाम कार्मणनाम, यदुदयात् कार्मणप्रायोग्यान् पुद्गलानादाय कार्मणशरीररूपतया परिणमयति, परिणमय्य च जीवप्रदेशैः सहान्योऽन्यानुगमरूपतया सम्बन्धयतीति ५ ॥ ३२ ॥ उक्तं तनुनाम पञ्चधा ३, इदानीमङ्गोपाङ्गनाम त्रिघा प्राह
१६
बाहूरु पिंट्ठि सिर उर, उयरंग उवंग अंगुलीपमुहा । सेसा अंगोवंगा, पढमतणुतिगस्सुवंगाणि ॥ ३३ ॥
'बाहू' भुजद्वयम् ' ऊरू' ऊरुद्वयम् 'पृष्ठिः' प्रतीता 'शिरः' मस्तकम् 'उर: ' वक्षः 'उदरं ' 'पोट्टमित्यष्टावङ्गान्युच्यन्ते । इह विभक्तिलोपः प्राकृतत्वात् एवमन्यत्रापि । उपाङ्गानि अङ्गुलीप्रमुखाणि, इह पुंस्त्वं प्राकृतत्वात् । 'शेषाणि' तत्प्रत्यवयवमूतान्यङ्गुलपर्वरेखादीनि अङ्गोपाज्ञान, इहापि पुंस्त्वं प्राकृतत्वात् । प्राकृते हि लिङ्गमतन्त्रम् । यदाहुः प्रभुश्री हेमचन्द्रसूरिपादाः खप्राकृतलक्षणे – “लिङ्गमतन्त्रम्" (सि० ८-४ - ४४५) इति । इमानि च उपाङ्गानि "पढमतणुतिगस्स" ति प्रथमा:- आद्या यास्तनव:-: :- शरीराणि तासां त्रिकं-त्रितयमौदारिकवैकियाऽऽहारकखरूपम् तस्य प्रथमतनुत्रिकस्य भवन्ति । ततः प्रथमतनुत्रिकद्वारेणाङ्गोपाङ्गनामापि त्रिविषं मन्तव्यम् । तथाहि-- औदारिकाङ्गोपाङ्गनाम वैक्रियाङ्गोपाङ्गनाम आहारकाङ्गोपाङ्गनाम । तत्र मदुदयाद् औदारिकशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभागपरिणतिरुपजायते तद् मौदारिकाङ्गोपाङ्गनाम १ । यदुदयाद् वैक्रियशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभागपरिणतिरुपजायते तद् वैक्रियाङ्गोपाङ्गनाम २ । यदुदयाद् आहारकशरीरत्वेन परिणतार्ना मुगलानामङ्गोपाङ्गविभागपरिणतिरुपजायते तद् आहारकाङ्गोपाङ्गनाम ३ । तैजसकार्मणयोस्तु नीवप्रदेश संस्थानानुरोधित्वात् नास्त्यङ्गोपाङ्गसम्भव इति ॥ ३३ ॥ उक्तं त्रिषमङ्गोपाङ्गनाम । साम्प्रतं बन्धननामखरूपमाहउरलाइपुग्गलाणं, निबद्धबज्झतयाण संबंधं ।
जं कुणइ जउसमं तं उरलाईबंधणं नेयं ॥ ३४ ॥ औदारिकादिपुद्गलानाम् आदिशब्दाद् वैक्रियपुद्गलानाम् आहारकपुद्गलानां तैजसपुद्गलानां कार्मणपुद्गलानाम्, किंविशिष्टानाम् : इत्याह-- “ निबद्धबज्झतयाण' "त्ति निबद्धाश्च बध्यमानाश्च निबद्धवध्यमानास्तेषां 'निबद्धबध्यमानाना' पूर्वबद्धानां बध्यमानानां च यत् कर्म 'सम्बन्ध' परस्परं मीलनं करोति दारुणामिव जतु, अत एव जतुसमं तद् औदारिकादिबन्धनम्, आदिशब्दाद् वैक्रियबन्धनम् आहारकबन्धनं तैजसबन्धनं कार्मणबन्धनं 'ज्ञेयं' ज्ञातव्यमिति गाथा - क्षरार्थः । भावार्थस्स्त्वयम् - इह पूर्वगृहीतैसैदारिकपुद्गलैः सह परस्परं गृह्यमाणान् औदारिकपुरकान् उदितेन येन कर्मणा बध्नाति - आत्मा अन्योऽन्यसंयुक्तान् करोति तद् औदारिकशरीरबन्धननाम दारुपाषाणादीनां जतुराळाप्रभृति-श्लेषद्रव्यतुल्यम् १ । पूर्वगृहीतैवैक्रियपुद्गलैः सह परस्पर गृह्यमाणान् वैक्रियपुद्गलान् उदितेन येन कर्मणा बध्नाति -आत्माऽन्योऽन्यसंयुक्तान् करोति तद् जतुसमं वैक्रियशरीरबन्धननाम २ । पूर्वगृहीतैराहार कशरीरपुद्गलैः सह परस्परं गृह्यमाणान् आहारकपुद्रान् उदितेन येन कर्मणा बन्नाति - आत्माऽन्योऽन्यसंयुक्तान् करोति तद् जतुसममाहा
१ पुट्ठि क० ० ० ॐ० ॥ २ पेहमि घ० ॥