________________
११-१६]
कर्मविपाकनामा प्रथमः कर्मजन्थः ।
99
रकशरीरबन्धननाम ३ । पूर्वगृहीतैस्तैजसपुद्गलैः सह परस्परं गृश्यमाणांस्तैजसपुद्गकान् उदितेन येन कर्मणा बध्नाति - आत्माऽन्योऽन्यसंयुक्तान् करोति तद् नतुसमं तैजसशरीरबन्धननाम ४ । पूर्वगृहीतेः कार्मणपुद्गलैः सह परस्परं गृह्यमाणान् कार्मणपुद्गलान् उदितेन येन कर्मणा बध्नाति - मात्माऽन्योऽन्यसंयुक्तान् करोति तद् जतुसमं कार्मणशरीरबन्धननाम ५ । यदि पुनरिवं शरीरपञ्चकपुद्गलानामौदारिकादिशरीरनाम्नः सामर्थ्याद्गृहीतानामन्योऽन्य सम्बन्धकारि बन्धनपञ्चकं न स्यात् ततस्तेषां शरीरपरिणतौ सत्यामप्यसम्बन्धत्वात् पवनाहतकुण्ड स्थितास्तीमितसक्तूनामिवैकत्र स्थैर्य न स्यादिति ॥ ३४ ॥ उक्तं बन्धनखरूपम् । इदं च बन्धननाम असंहतानां पुगानां न सम्भवति, अतोऽन्योऽन्यसन्निघानलक्षणपुद्गलसंहतेः कारणं सङ्घातनमाहजं संघाय उरलाइपुग्गले तणगणं व दंताली ।
तं संघायं बन्धणेमिव तणुनामेण पंचविहं ॥ ३५ ॥
यत् कर्म 'सङ्घातयति' पिण्डीकरोति औदारिकादिपुद्गलान् आदिशब्दाद् वैक्रियपुद्गलान् आहारकपुद्गलान् तैजसपुद्गलान् कार्मणपुद्गलान्, तत्र दृष्टान्तमाह - 'तृणगणमिव' तृणोत्करमिवेतश्चेतश्च विक्षिप्तं 'दन्ताली' काष्ठमयी मरुमण्डलप्रसिद्धा, तत् 'सङ्घातं ' सङ्घातननाम, तच पूर्वोक्तं बन्धननामापि 'तनुनाम्ना' शरीराभिधानेन पञ्चविधं भवतीति । तत्र बन्धननाम पूर्वमेव भावितम् । अथ सङ्घातनाम भाव्यते— औदारिकसङ्घातनाम वैक्रियसङ्घातनाम आहारकसङ्घातनाम तैजससङ्घातनाम कार्मणसङ्घातनाम । तत्र यदुदयाद् औदारिकशरीरत्वपरिणतान् पुद्गलानात्मा सङ्घातयति - अन्योऽन्यसन्निधानेन व्यवस्थापयति तद् औदारिकसङ्घातननाम १ । यदुदयाद् वैक्रियशरीरत्वपरिणतान् पुद्गलानात्मा सङ्घातयति - अन्योऽन्यसन्निघानेन व्यवस्थापयति तद् वैकियसङ्घातननाम २ । यदुदयाद् आहारकशरीरत्वपरिणतान् पुद्गलानात्मा सङ्घातयति--अन्योऽन्यसन्निधानेन व्यवस्थापयति तद् आहारकसङ्घातननाम ३ | यदुदयात् तैजसशरीरत्वपरिणतान् पुद्गलानात्मा सङ्घातयति - अन्योऽन्यसन्निधानेन व्यवस्थापयति तत् तैजससङ्घातनाम ४ । यदुदयात् कार्मणशरीरत्वपरिणतान् पुद्गलानात्मा सङ्घातयति - अन्योऽन्यस - निधानेन व्यवस्थापयति तत् कार्मणसङ्घातननाम ५ इति ॥ ३५ ॥
उक्तं पञ्चधा बन्धननाम पञ्चधा सङ्घातननाम । सम्प्रति "संते वा पनरबंधणे तिसयं" इति (३०) गाथा सूचितं बन्धनपञ्चदशकं व्याचिख्यासुराह
ओरालबिउव्वाहारयाण सगतेयकम्मजुत्ताणं ।
नव बंधणाणि इयरदुसहियाणं तिनि तेसिं च ॥ ३६ ॥ औदारिकवैक्रियाऽऽहारकशरीराणां नव बन्धनानीति योगः । कीदृशानां सताम् ? इत्याह'स्वकतैजसकार्मणयुक्तानाम् ' प्रत्येकं खकतैजसकार्मणानां मध्यादन्यतरेण युक्तानामित्यर्थः । "नव" ति नवसङ्खपानि बन्धनानि बन्धनप्रकृतयो भवन्तीति । औदारिकवैक्रियाहारकाणां त्रयाणामपि प्रत्येकं खनाम्ना तैजसेन कार्मणेन च योगाद् द्विकसंयोगनिष्पन्नान्येकैकस्य औदारिकादेस्त्रीणि त्रीणि बन्धनानि भवन्ति तेषां च त्रयाणां त्रिकाणां मीलने नव बन्धनानीति ।
१ णमवित क० ॥ २ स्वखते क० घ० ॥