________________
३२ ]
कर्मविपाकनामा प्रथमः कर्मग्रन्थः ।
१६९) इतीकण्प्रत्ययः, तन्निबन्धनं नाम औदारिकनाम, यदुदयवशाद् औदारिकशरीरप्रायोग्यान् पुद्गलानादाय औदारिकशरीररूपतया परिणमयति, परिणमय्य च जीवप्रदेशैः सहान्योऽन्यानुगमरूपतया सम्बन्धयति, तद् औदारिकशरीरनामेत्यर्थः १ । तथा विविधा क्रिया विक्रिया तस्यां भवं वैक्रियम् । तथाहि तदेकं भूत्वा अनेकं भवति, अनेकं भूत्वा एकम्, अणु भूत्वा महद् भवति, महच्च भूत्वा अणु, खेचरं भूत्वा भूमिचरं भवति, भूमिचरं भूत्वा खेचरं भवति, दृश्यं भूत्वा अदृश्यं भवति, अदृश्यं भूत्वा दृश्यमित्यादि । तच्च द्विधा - औपपातिकं लब्धिमत्ययं च । तत्रोपपातिकम् - उपपातजन्मनिमित्तम्, तच देवनारकाणाम् । लब्धिप्रत्ययं तिर्यन्मनुष्याणाम् । वैक्रियनिबन्धनं नाम वैक्रियनाम, यदुदयाद् वैक्रियशरीरप्रायोग्यान् पुद्गलानादाय वैक्रिशरीररूपतया परिणमयति, परिणमध्य च जीवप्रदेशैः सहान्योऽन्यानुगमरूपतया सम्बन्धयतीति २ । तथा चतुर्दशपूर्व विदा तीर्थकरस्फातिदर्शनादिकतथाविधप्रयोजनोत्पत्तौ सत्यां विशिष्टलब्धिवशाद् आह्रियते निर्वर्त्यत इत्याहारकम्, “बहुलम् ” (सि० ५-१-२ ) इति वचनात् कर्मणि णक्प्रत्ययः, यथा पादहारक इत्यादौ, तच्च वैक्रियापेक्षयाऽत्यन्तशुभं स्वच्छस्फटिकशिलेव शुभ्र पुद्गलसमूहघटनात्मकम्, आहारकनिबन्धनं नाम आहारकनाम, यदुदयवशाद् आहारकशरीरप्रायोग्यान् पुद्गलानादाय आहारकशरीररूपतया परिणमयति, परिणमय्य च जीवप्रदेशैः सहान्योऽन्यानुगमरूपतया सम्बन्धयतीति ३ । तथा तेजसा तेजः पुद्गलैर्निर्वृत्तं तैजसम्, यद् भुक्ताहारपरिणमनहेतुर्यद्वशाच्च विशिष्टतपः समुत्थलब्धिविशेषस्य पुंसस्तेजोलेश्या - विनिर्गमः, तेजोनिबन्धनं नाम तैजसनाम, यदुदयवशात् तैजसशरीरप्रायोग्यान् पुद्गलानादाय "तैजसशरीररूपतया परिणमयति, परिणमय्य च जीवप्रदेशैः सहान्योऽन्यानुगमरूपतया सम्बन्धयतीति । तथा कर्मपरमाणुषु भवं कार्मिकं कार्मणशरीरमित्यर्थः । कर्मपरमाणव एवा - त्मप्रदेशैः शैः सह क्षीरनीरवदन्योऽन्यानुगताः सन्तः कार्मणशरीरम्, कर्मणो विकारः कार्मणमिति व्युत्पत्तेः । तदुक्तम्
।
४५
कम्मविगारो कम्मणभट्ट विहविचितकम्मनिष्पन्नं । सर्स सरीराणं, कारणभूयं मुणेयां ||
अत्र "सवेसिं" ति सर्वेषामौदारिकादिशरीराणां 'कारणभूतं' बीजभूतं कार्मणशरीरम् । न खल्वामूलमुच्छिन्ने भवप्रपञ्चप्ररोहबीजभूते कार्मणे वपुषि शेषशरीरप्रादुर्भावसम्भवः । इदं च कार्मणशरीरं जन्तोर्गत्यन्तरसङ्कान्तौ साधकतमं कारणम् । तथाहि-- कार्मणेनैव वपुषा परिकरितो जन्तुर्मरणदेशमपहायोत्पत्तिदेशमभिसर्पति । ननु यदि कार्मणवपुः परिकरितो गत्यन्तरं सङ्क्रामति तर्हि स गच्छन्नागच्छन् वा कस्मात् नोपलक्ष्यते ? उच्यते--- कर्मपुद्गलानामतिसूक्ष्मतया क्षुरादीन्द्रियाऽगोचरत्वात् । आह च प्रज्ञाकरगुप्तोऽपि -
अन्तराभवदेहोऽपि, सूक्ष्मत्वान्नोपलक्ष्यते ।
निष्क्रामन् प्रविशन् वाऽपि नाभावोऽमीक्षणादपि ॥
१ कार्मणं श० क० ख० ० ० ॥ २ कर्मविकारः कार्मणमवविधविचित्रकर्मनिष्पन्नम् । सर्वेर्षा शरीराणां कारणभूतं ज्ञातव्यम् ॥